Enter your Email Address to subscribe to our newsletters

कोलकाता, १० सेप्टेम्बरमासः (हि.स.)। उच्चतमन्यायालयेन रक्षाकवचं निष्का-सितस्य किञ्चित्कालानन्तरमेव पश्चिम-बङ्गस्य सीआईडी-संस्था तथा एसटीएफ-संस्था तृणमूलकाङ्ग्रेसस्य सांसदस्य अभिषेकबनर्जी इत्यस्य सहायकं सुमितरायं गृहीतवत्यौ। शालबनी-भूमि-भ्रष्टाचारप्रकरणे निग्रहणानन्तरं सुमितरायः पृच्छायै भवानीभवनं नीतः। मुख्यमन्त्री शुभेन्दु-अधिकारी विधान-सभायां सुमितरायस्य निग्रहणस्य पुष्टिं कृतवान्। सः एतदपि उक्तवान् यत् सुमितरायः ‘भाइ’ इत्यस्य मुख्यः सङ्ग्राहकः आसीत्।
गुरुवासरे उच्चतमन्यायालयेन सुमित-रायाय प्रदत्ता न्यायिकसुरक्षा समाप्तीकृता। ततः अन्वेषणसंस्थाः तत्क्षणमेव सक्रियाः अभवन्। किञ्चित्कालानन्तरमेव सी-आईडी-संस्थायाः एसटीएफ-संस्थायाश्च बृहत् दलं कालीघाटस्थिते १२१, कालीघाट-मार्गे स्थितं स्थलं प्राप्तम्। अन्वेषणा-धिकारिभ्यः सूचना प्राप्ता आसीत् यत् तस्मिन् समये सुमितरायः अभिषेकबनर्जी इत्यस्य आवासे उपस्थितः अस्ति। ततः अधिकारीभिः चलच्चित्रग्राहकेण सह घटनास्थलं प्राप्तम्।
अधिकारिणां तत्र प्राप्तसमये आवासस्य मुख्यद्वारे ताला दृष्टम्। ततः अधिकारिभिः आहूय द्वारं उद्घाटितम्। आरोपः अस्ति यत् अन्तःप्रवेशसमये सुरक्षाकर्मिभिः सह अधिकारिणां कोलाहलम् अपि अभवत्। सुरक्षाव्यवस्थां अतिक्रम्य सीआईडी-अधिकारिणः परिसरस्य अन्तर्भागे प्रविष्टवन्तः।
अन्तः प्रविश्य अधिकारिभिः सुमितरायः परिवेष्टितः तथा च तेन सह दीर्घकालं यावत् पृच्छा कृता। ततः तं गृहीत्वा अन्वेषणसंस्थायाः याने उपवेशितम्। सम्पूर्णस्य कार्यवाहीक्रमस्य सीआईडी-संस्थया चलच्चित्रणमपि कारितम्। शालबनी-भूमिप्रकरणे सुमितरायस्य विषये अग्रेऽपि पृच्छा करिष्यते।
Hindusthan Samachar / Divya Ranjan