कर्तारपुर-गलियारेतः वीरबालदिवसपर्यन्तं, सिखसमाजाय मोदीशासनेन कृतानि महत्त्वपूर्णकार्याणि : नितिननवीनः
पञ्जाब-उत्तराखण्डयोः विकासेन विकसितभारताय नूतना गतिः प्राप्स्यते।हेमकुण्डसाहिब-रज्जुमार्गेन ४५ निमेषेषु दर्शनं भविष्यति : नितिननवीनःरुद्रपुरम्, १० सितम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः गुरुवासरे रुद्रपुरे आयोजिते पञ्जा
रुद्रपुर में पंजाबी सम्मेलन को संबोधित करते भाजपा के  राष्ट्रीय अध्यक्ष नितिन नवीन और मुख्यमंत्री धामी।


पञ्जाब-उत्तराखण्डयोः विकासेन विकसितभारताय नूतना गतिः प्राप्स्यते।हेमकुण्डसाहिब-रज्जुमार्गेन ४५ निमेषेषु दर्शनं भविष्यति : नितिननवीनःरुद्रपुरम्, १० सितम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः गुरुवासरे रुद्रपुरे आयोजिते पञ्जाबीगौरवसम्मेलने उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रसर्वकारेण सिखसमाजस्य सम्मानस्य धार्मिकश्रद्धायाश्च सम्बद्धानि अनेकानि महत्त्वपूर्णनिर्णयानि स्वीकृतानि सन्ति। सः १९८४ तमे वर्षे सिखविरोधिदङ्गानां प्रकरणेषु विशेषानुसन्धानदलस्य गठनस्य, कर्तारपुरसाहिब-गलियारस्य उद्घाटनस्य तथा साहिबजादानां स्मृतौ वीरबालदिवसस्य घोषणायाः उल्लेखं कृतवान्।

नवीनः उक्तवान् यत् १९८४ तमवर्षस्य दङ्गानां दोषिभ्यः दण्डं प्रदातुं २०१५ तमे वर्षे विशेषानुसन्धानदलस्य गठनं कृतम्। सः उक्तवान् यत् कर्तारपुरसाहिब-गलियारस्य उद्घाटनमपि सिखसमाजस्य दीर्घकालतः प्रचलितायाः धार्मिकाकाङ्क्षायाः सम्बद्धं महत्त्वपूर्णं सोपानम् आसीत्। ९ नवम्बर् २०१९ दिनाङ्के गलियारेस्य प्रारम्भेन श्रद्धालूनां कृते कर्तारपुरसाहिबस्य यात्रा सुगमा अभवत्।

भाजपाध्यक्षः उक्तवान् यत् प्रधानमन्त्रीमोदिना २६ दिसम्बर् दिनाङ्कः वीरबालदिवसरूपेण घोषितः तथा गुरुगोविन्दसिंहस्य साहिबजादयोः बाबा जोरावरसिंहस्य बाबा फतेहसिंहस्य च बलिदानं राष्ट्रियस्तरे सम्मानितम्। सः नागरिकतासंशोधनाधिनियमस्य उल्लेखं कुर्वन् उक्तवान् यत् पाकिस्तान-बाङ्गलादेश-अफगानिस्तानदेशेभ्यः धार्मिकपीडनस्य कारणेन भारतम् आगतेभ्यः हिन्दुसिखसमुदाययोः जनभ्यः नागरिकताप्राप्तेः मार्गः उपलब्धः कारितः।

सः उक्तवान् यत् हेमकुण्डसाहिबस्य यात्रां सुगमां कर्तुं गोविन्दघाटतः हेमकुण्डसाहिबपर्यन्तं रज्जुमार्गपरियोजनायाः कार्यं अग्रे वर्धते। नवीनः पञ्जाबे मादकद्रव्यसमस्यां बृहतीं चुनौतीं वर्णयन् जनान् ‘विकसितभारताय नशामुक्तयुवसङ्कल्पाभियाने’ सम्बद्धुं आहूतवान्।

नवीनः उक्तवान् यत् पञ्जाबस्य उत्तराखण्डस्य च विकासः विकसितभारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। सः तराईक्षेत्रस्य विकासे पञ्जाबी-सिखसमाजस्य योगदानस्य प्रशंसां कृतवान्। सः उक्तवान् यत् विभाजनानन्तरम् अत्र आगत्य निवसितैः परिवारैः परिश्रमेण उद्यमशीलतया च ऊधमसिंहनगरं राज्यस्य प्रमुखेषु कृष्यर्थिकक्षेत्रेषु समावेशयितुं योगदानं कृतम्।

मुख्यमन्त्री पुष्करसिंहधामी सम्मेलने उक्तवान् यत् पञ्जाबीसमाजस्य संस्कृतिः, सेवा, साहसम्, उद्यमशीलता राष्ट्रभक्तिश्च देशस्य शक्तेः प्रतीकानि सन्ति। सः उक्तवान् यत् सिखगुरूणां जीवनम् अन्यायस्य विरुद्धं संघर्षस्य, मानवसेवायाः तथा राष्ट्रहितं सर्वोपरि स्थापयितुं प्रेरणां ददाति।

धामी उक्तवान् यत् गोविन्दघाटतः हेमकुण्डसाहिबपर्यन्तं प्रायः १२.५ किलोमीटर्-दीर्घस्य रज्जुमार्गस्य निर्माणस्य दिशि कार्यम् अग्रे वर्धितम् अस्ति। अनेन वृद्धानां महिलानां अन्येषां च श्रद्धालूनां तीर्थयात्रा सुगमा भविष्यति। मुख्यमन्त्री उक्तवान् यत् तराईक्षेत्रस्य विकासे पञ्जाबीसमाजस्य महत्त्वपूर्णं योगदानं वर्तते। सः पण्डितगोविन्दबल्लभपन्तम् अपि तस्य जयन्त्यां श्रद्धाञ्जलिं समर्पितवान् तथा क्षेत्रस्य विकासे तस्य योगदानं स्मृतवान्।

सम्मेलने भाजपायाः प्रदेशाध्यक्षः महेन्द्रभट्टः, राष्ट्रियमाध्यमप्रभारी अनिलबलूनी, सांसदः अजयभट्टः, मन्त्रिमण्डलमन्त्री सौरभबहुगुणः, विधायकाः प्रदीपबत्रा, शिवअरोरा, त्रिलोकचीमा इत्यादयः पक्षस्य पदाधिकारिणः, जनप्रतिनिधयः तथा पञ्जाबी-सिखसमाजस्य जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani