Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 11 सितंबरमासः (हि.स.)।
असमस्य मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वशर्मणा शुक्रवासरे राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकाय डॉ. मोहनभागवते जन्मदिवसस्य हार्दिकशुभकामनाः प्रदत्ताः।
सामाजिकमाध्यमे प्रकाशितेन सन्देशेन मुख्यमन्त्रिणा राष्ट्रनिर्माणे सामाजिकसमरसतायाश्च निर्माणे डॉ. भागवतस्य योगदानाय कृतज्ञता व्यक्ता।
डॉ. हिमन्तबिस्वशर्मणा उक्तं यत् मातुः कामाख्यायाः महापुरुषस्य श्रीमन्तशङ्करदेवस्य च भूमेः असमप्रदेशात् सः डॉ. भागवतस्य उत्तमस्वास्थ्याय दीर्घायुष्याय च ईश्वरं प्रार्थयति।
------------
Hindusthan Samachar / Dheeraj Maithani