दिल्ल्यां भाजपादलस्य जिला अथ मोर्चा इत्यनयोः प्रभारिणां नियुक्तिः
नव दिल्ली, 11 सितंबरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) देहलीप्रदेशाध्यक्षस्य हर्षमल्होत्रस्य अनुमत्या शीर्षनेतृत्वेन सह विचारविमर्शं कृत्वा देहलीप्रदेशस्य मण्डलप्रभारीणां मण्डलसहप्रभारिणां च विभिन्नमोर्चानां प्रभारीणां सहप्रभारीणां च नियुक्ति
केंद्रीय सड़क परिवहन एवं राजमार्ग राज्य मंत्री, दिल्ली भाजपा प्रदेश अध्यक्ष हर्ष मल्होत्रा (फाइल फोटो)।


नव दिल्ली, 11 सितंबरमासः (हि.स.)।

भारतीयजनतापार्टी (भाजपा) देहलीप्रदेशाध्यक्षस्य हर्षमल्होत्रस्य अनुमत्या शीर्षनेतृत्वेन सह विचारविमर्शं कृत्वा देहलीप्रदेशस्य मण्डलप्रभारीणां मण्डलसहप्रभारिणां च विभिन्नमोर्चानां प्रभारीणां सहप्रभारीणां च नियुक्तिः कृता अस्ति। दलस्य पक्षतः तस्याः सूची प्रकाशिताऽस्ति।

सूच्यनुसारं केशवपुरमण्डले ऋचा पाण्डेयमिश्रा मण्डलप्रभारी तथा मनोजत्यागी सहप्रभारी नियुक्तौ स्तः। चाँदनीचौक्-मण्डले दिनेशप्रतापसिंहः प्रभारी तथा धीरजललितजोशी सहप्रभारी नियुक्तः अस्ति।

उत्तरपूर्वमण्डले नरेशवशिष्ठः प्रभारी तथा सुनीतचौहानः सहप्रभारी, नवीनशाहदरामण्डले योगेशआत्रेयः प्रभारी तथा रोहताशबिधूडी सहप्रभारी, मयूरविहारमण्डले सुनीलयादवः प्रभारी तथा प्रवेशशर्मा सहप्रभारी, शाहदरामण्डले विक्रमबिधूडी प्रभारी तथा सागरत्यागी सहप्रभारी भविष्यतः।

नवदेहलीमण्डले विजयसोलङ्की प्रभारी तथा सचिनभसीनः सहप्रभारी, करोलबागमण्डले सत्यनारायणगौतमः प्रभारी तथा प्रवीणाशर्मा सहप्रभारी, उत्तरपश्चिममण्डले च चौधरीमहकसिंहः प्रभारी तथा रणवीरतंवरः सहप्रभारी नियुक्तौ स्तः।

बाह्यदेहलीमण्डले कृष्णदेवसिंहः (कृष्णः) प्रभारी तथा सतेन्द्रसिंहः सहप्रभारी, पश्चिमदेहलीमण्डले विनोदबछेती प्रभारी तथा आदित्यझा सहप्रभारी, नजफगढ़मण्डले राजनतिवारी प्रभारी तथा भूपेन्द्रगुप्तः सहप्रभारी, महरौलीमण्डले मनीषसिंहः (करोलबाग) प्रभारी तथा आजादशर्मा सहप्रभारी तथा दक्षिणदेहलीमण्डले गौरवखारी प्रभारी तथा बजरङ्गशुक्लः सहप्रभारी नियुक्ताः सन्ति।

दलस्य विभिन्नमोर्चानां प्रभारीणां सहप्रभारीणां च नियुक्तिरपि कृता अस्ति। युवामोर्चस्य दायित्वं रोहितचहलेन प्रभारीरूपेण तथा अरुणदरालेन सहप्रभारीरूपेण स्वीकृतम् अस्ति। महिलामोर्चे आरतीमेहरा प्रभारी तथा सारिकाजैन सहप्रभारी भविष्यतः।

अनुसूचितजातिमोर्चे कौशलमिश्रः प्रभारी तथा सोनाकुमारी सहप्रभारी, अन्यपश्चाद्वर्गमोर्चे विनयरावतः प्रभारी तथा आजादसिंहः सहप्रभारी नियुक्तौ स्तः। अल्पसंख्यकमोर्चे मोहम्मदहारूनः प्रभारी तथा गुरमीतसिंहसूरा सहप्रभारी भविष्यतः।

कृषकमोर्चे राजकुमारबल्लनः प्रभारी तथा महेशतोमरः सहप्रभारी, पूर्वाञ्चलमोर्चे बिपिनबिहारीसिंहः प्रभारी तथा बृजेशरायः सहप्रभारी नियुक्तौ स्तः। अनुसूचितजनजातिमोर्चे रञ्जीतकश्यपः प्रभारी तथा सुन्दरचौधरी (मयूरविहार) सहप्रभारी नियुक्तः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani