शुभेन्दोः संचेतनाया: अनन्तरं कार्यवाही, बागेश्वरधामप्रमुखस्य चित्रं दग्धस्य आरोपे काङ्ग्रेसनेता गृहीतः
कोलकाता, ११ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्रिणः शुभेन्दु-अधिकारेण विधानसभायां प्रदत्तायाः चेतावन्याः परदिने एव आरक्षक-प्रशासनेन कार्यवाही कृता। बागेश्वरधामस्य प्रमुखस्य धीरेन्द्र-कृष्ण-शास्त्रिणः चित्रं दग्धस्य आरोपे काङ्ग्रेसनेता
बागेश्वर धाम


कोलकाता, ११ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्रिणः शुभेन्दु-अधिकारेण विधानसभायां प्रदत्तायाः चेतावन्याः परदिने एव आरक्षक-प्रशासनेन कार्यवाही कृता। बागेश्वरधामस्य प्रमुखस्य धीरेन्द्र-कृष्ण-शास्त्रिणः चित्रं दग्धस्य आरोपे काङ्ग्रेसनेता अतनु-दासः गृहीतः। भवानीपुर-आरक्षकस्थानकस्य आरक्षक-दलेन दक्षिण-कोलकाता-जनपदस्य काङ्ग्रेस-महासचिवः अतनु-दासः शुक्रवासरे प्रातः टॉलीगञ्जस्थितात् स्वगृहात् गृहीतः।

धीरेन्द्र-कृष्ण-शास्त्री अस्य मासस्य प्रारम्भे कोलकातानगरम् आगतवान्। तस्मिन् समये तेन दुर्गापूजायाः समये मांसाहारभोजनं करणस्य विषये टिप्पणी कृता आसीत्। तस्य वक्तव्यं प्रति सम्पूर्णे राज्ये विवादः उत्पन्नः। भाजपा-दलस्य बहवः नेतारः अपि धीरेन्द्र-कृष्ण-शास्त्रिणः टिप्पण्या सह असहमतीं प्रकटितवन्तः।

अस्यैव विरोधे काङ्ग्रेसनेतारः भवानीपुर-आरक्षकस्थानकस्य पुरतः धीरेन्द्र-कृष्ण-शास्त्रिणः चित्रं दग्ध्वा प्रदर्शनम् अकुर्वन्। अस्य कार्यक्रमस्य नेतृत्वम् अतनु-दासेन कृतम् आसीत्। चित्रदहनस्य घटनां प्रति मुख्यमन्त्री शुभेन्दु-अधिकारी कठोरं पदम् अवलम्बितवान्।

विधानसभायां गुरुवासरे मुख्यमन्त्रिणा अस्य प्रकरणस्य उल्लेखं कृत्वा कोलकाता-आरक्षकायुक्ताय सम्बन्धितान् जनान् गृहीतुं निर्देशः प्रदत्तः। तेन उक्तम्—“भवानीपुर-आरक्षकस्थानकस्य पुरतः केचन जनाः चित्रं दहन्तः मया दृष्टाः। अहं आरक्षकायुक्तं वदामि यत् एते शीघ्रं ग्रहीतव्याः। अस्माकं राज्ये एतादृशं सर्वं न सहिष्यते।”

मुख्यमन्त्रिणः चेतावन्याः अनन्तरम् आरक्षक-दलेन रात्रौ एव कार्यवाही प्रारब्धा। भवानीपुर-आरक्षकस्थानकस्य आरक्षक-दलेन टॉलीगञ्जस्थिते अतनु-दासस्य गृहे छापामारी इति कृता। तस्मिन् समये काङ्ग्रेसनेता गृहे एव उपस्थितः आसीत्। आरक्षक-दलेन तं गृहीत्वा भवानीपुर-आरक्षकस्थानकं नीतम्। शुक्रवासरे तं न्यायालये प्रस्तुतं करिष्यते। घटनायां संलिप्तानाम् अन्येषाम् आरोपितानां अन्वेषणाय अपि आरक्षक-दलेन छापामारी इति क्रियते।

अतनु-दासस्य ग्रहणानन्तरं काङ्ग्रेसनेतृषु रोषः दृश्यते। प्रदेश-काङ्ग्रेस-अध्यक्षः शुभङ्कर-सर्वकारः मुख्यमन्त्रिणः निग्रहणसम्बन्धिवक्तव्यस्य विरोधे सामाजिकमाध्यमे प्रकाशितवान्। तेन काङ्ग्रेसस्य लोकतान्त्रिकमूल्यानां विरोधस्य अधिकारस्य च उल्लेखं कुर्वता उक्तं यत् दलं स्वजन्मदिनात् अद्यपर्यन्तं कस्यापि अन्यायस्य पुरतः शिरः न नतवान् तथा काङ्ग्रेसकार्यकर्तारः विरोधस्य मार्गात् कदापि न निवृत्ताः।

Hindusthan Samachar / Divya Ranjan