नागांव-लोकसभोपनिर्वाचनाय भाजपापक्षेण देबाशीषशर्मा प्रत्याशी घोषितः
नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण असमस्य नागांव-लोकसभाक्षेत्रे २०२६ तमे वर्षे आयोज्यमाने लोकसभोपनिर्वाचने देबाशीषशर्मा प्रत्या-शित्वेन घोषितः। शुक्रवासरे पक्षस्य कार्यालयप्रभारी तरुणचुग: अवदत् यत् केन्द्रीयनिर्वाचन-समित्या नौगा
भाजपा द्वारा जारी सूची


नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षेण असमस्य नागांव-लोकसभाक्षेत्रे २०२६ तमे वर्षे आयोज्यमाने लोकसभोपनिर्वाचने देबाशीषशर्मा प्रत्या-शित्वेन घोषितः।

शुक्रवासरे पक्षस्य कार्यालयप्रभारी तरुणचुग: अवदत् यत् केन्द्रीयनिर्वाचन-समित्या नौगांव-लोकसभाक्षेत्रात् देबा-शीषशर्मा प्रत्याशी चयनितः। देबाशीषशर्मा असम-संवर्गस्य पूर्व आईएएस-अधिकारी आसीत्। सः सम्प्रति एव सर्वकारीयसेवायाः स्वैच्छिकनिवृत्तिं स्वीकृत्य सक्रिय-राजनीतौ प्रवेशं कृतवान् तथा भारतीय-जनतापक्षस्य सदस्यतां गृहीतवान्।

लोकसभोपनिर्वाचनाय नामाङ्कनपत्राणि अस्य मासस्य १६ दिनाङ्कपर्यन्तं प्रवेष्टुं शक्यन्ते। मतदानं ६ अक्टोबर-दिनाङ्के, मतगणना च ९ अक्टोबर-दिनाङ्के भविष्यति।

Hindusthan Samachar / Divya Ranjan