Enter your Email Address to subscribe to our newsletters



सक्ति:, ११ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयकृषिमन्त्री तथा कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः शुक्रवासरे सक्तिजनपदस्य प्रवासे प्राप्तवान्। तेन सह छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः अपि सक्तिं प्राप्तवान्। जनपदप्रशासनस्य स्थानीय-जनप्रतिनिधीनां च पक्षतः तयोः भव्यं स्वागतं कृतम्।
केन्द्रीयमन्त्रिण: शिवराजसिंहचौहानस्य मुख्यमन्त्रिणः विष्णुदेवसायस्य च हेलिकॉप्टरविमानं सक्तेः जेठास्थिते महाविद्यालयस्य क्रीडाङ्गणे निर्मिते हेलिपैड-इत्यत्र अवतरितम्। तयोः आगमने स्थानीयस्तरे पारम्परिक-सांस्कृतिकरीत्या स्वागतं कृतम्। अस्मिन् समये ५०-सदस्यीयया श्रीसिद्धेश्वरनाथ-महिला-कर्मा-दलस्य मनोहारिण्या सांस्कृतिक-प्रस्तुत्या अतिथीनां स्वागतं कृतम्। महिला-कर्मा-दलस्य प्रस्तुत्या कार्यक्रम-स्थले उपस्थितानां जनानां विशेषं ध्यानम् आकर्षितम्।
हेलिपैडे केन्द्रीयमन्त्रिणः मुख्यमन्त्रिणश्च प्राप्त्यनन्तरं जनप्रतिनिधिभिः प्रशासनि-काधिकारिभिश्च तयोः आत्मीयं स्वागतं कृतम्। अस्मिन् समये उपमुख्यमन्त्री विजयशर्मा, सक्तिजनपदस्य प्रभारीमन्त्री गुरुखुशवन्तसाहेबः, सांसदः कमलेश-जाङ्गडे इत्यादिभिः जन-प्रतिनिधिभिः पुष्पगुच्छं समर्प्य तयोः स्वागतं कृतम्।
जनपदप्रशासनस्य पक्षतः जनपदा-धिकारिणा जयश्रीजैनेन अपि केन्द्रीय-मन्त्रिण: शिवराजसिंहचौहानस्य मुख्य-मन्त्रिणः विष्णुदेवसायस्य च स्वागतं कृतम्। अपरतः आरक्षक-अधीक्षकः प्रफुल्लठाकुरः, जनपदपञ्चायतस्य मुख्य-कार्यपालनाधिकारी वासुजैनः इत्यादिभिः अधिकारिभिरपि पुष्पगुच्छं समर्प्य अतिथीनाम् अभिनन्दनं कृतम्।
केन्द्रीयकृषिमन्त्रिणः कृषककल्याण-ग्रामीणविकासमन्त्रिणः च सक्तिप्रवासं प्रति स्थानीयस्तरे विशेषः उत्साहः दृष्टः। तेन सह मुख्यमन्त्रिणः आगमनेन प्रशासनिकेषु राजनैतिकेषु च क्षेत्रेषु कार्यक्रमं प्रति पर्याप्ता सक्रियता आसीत्। हेलिपैड इत्यत्र स्वागतस्य अनन्तरं केन्द्रीयमन्त्री मुख्यमन्त्री च निर्धारितकार्यक्रमाय प्रस्थितवन्तौ।
केन्द्रीयमन्त्रिणः शिवराजसिंहचौहानस्य सक्तिप्रवासः कृषिः, कृषककल्याणं ग्रामीणविकासश्च इत्येतेषां विषयाणां दृष्ट्या महत्त्वपूर्णः मन्यते। तस्य प्रवासं प्रति जनपदस्य जनप्रतिनिधिषु, प्रशासनिका-धिकारिषु स्थानीयजनेषु च विशेषा उत्सुकता आसीत्।
हिन्दुस्थान-समाचारः / लालिमाशुक्ला-पुरोहितः
Hindusthan Samachar / Divya Ranjan