मुख्यमन्त्री सायः अद्य सक्तीजनपदस्य प्रवासे, प्रधानमन्त्रिणः आवासगृहप्रवेशे लखपतीदीदी-सम्मेलने च सहभागितां करिष्यति
रायपुरम्, ११ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः शुक्रवासरे सक्तीजनपदस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः जेठा-ग्रामे आयोजिते प्रधान-मन्त्रिणः आवासयोजनान्तर्गतं गृहप्रवेश-कार्यक्रमे, पञ्चायतपदाधिकारिणां लख-पतीदीदी-सम्मेलने च सहभागि
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, ११ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः शुक्रवासरे सक्तीजनपदस्य प्रवासे भविष्यति। अस्मिन् अवसरे सः जेठा-ग्रामे आयोजिते प्रधान-मन्त्रिणः आवासयोजनान्तर्गतं गृहप्रवेश-कार्यक्रमे, पञ्चायतपदाधिकारिणां लख-पतीदीदी-सम्मेलने च सहभागिता करिष्यति।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायः प्रातः १०:३० वादने सिविल-लाइनस्थितात् मुख्यमन्त्रिनिवासात् सक्तीजनपदस्य जेठा-ग्रामं प्रति प्रस्थास्यति। मध्याह्ने १२ वादनतः १:३० वादनपर्यन्तं सः महा-विद्यालय-क्रीडाङ्गणे आयोजिते प्रधान-मन्त्रिणः आवासयोजनान्तर्गतं गृहप्रवेश-कार्यक्रमे, पञ्चायतपदाधिकारिणां लखपतीदीदी-सम्मेलने च सहभागिता करिष्यति।

कार्यक्रमस्य अनन्तरं मुख्यमन्त्री मध्याह्ने २ वादने हेलिकॉप्टरद्वारा जेठातः रायपुरं प्रति प्रस्थास्यति।

Hindusthan Samachar / Divya Ranjan