मुख्यमंत्री मोहन चरण माझी मोहन भागवताय अददात् जन्मदिनस्य शुभकामनाः
भुवनेश्वरम्, 11 सितंबर मासः(हि.स.)। ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकं डॉ. मोहनभागवतं तस्य जन्मदिवसस्य अवसरे हार्दिकाभिनन्दनानि शुभकामनाश्च अर्पितवान्। मुख्यमन्त्री माझी सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र सन
Picture of the Rashtriya Swayamsevak Sangh (RSS) Sarsanghchalak Dr Mohan Bhagwat. राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक मोहन भागवत की तस्वीर।


भुवनेश्वरम्, 11 सितंबर मासः(हि.स.)।

ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी राष्ट्रियस्वयंसेवकसङ्घस्य सरसङ्घचालकं डॉ. मोहनभागवतं तस्य जन्मदिवसस्य अवसरे हार्दिकाभिनन्दनानि शुभकामनाश्च अर्पितवान्।

मुख्यमन्त्री माझी सामाजिकमाध्यममञ्चे ‘एक्स्’ इत्यत्र सन्देशं प्रकाश्य डॉ. मोहनभागवतस्य उत्तमस्वास्थ्यस्य, दीर्घायुष्यस्य, निरन्तरऊर्जायाश्च कामनां कृतवान्। तेन महाप्रभोः श्रीजगन्नाथस्य समीपे प्रार्थना कृता यत् डॉ. भागवताय राष्ट्रसेवाकार्ये निरन्तरं मार्गदर्शनं सामर्थ्यं च प्राप्येताम्।

मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् डॉ. मोहनभागवतस्य प्रेरणादायकं मार्गदर्शनं राष्ट्रसेवाभावनां निरन्तरं सुदृढं करोतु। तेन डॉ. भागवतस्य स्वस्थस्य दीर्घजीवनस्य च कामनां कुर्वता तस्मै जन्मदिवसस्य हार्दिकाः शुभकामनाः प्रेषिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani