Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयमहिला-बालविकासमन्त्रालयस्य अधीनस्थस्य केन्द्रीयदत्तकग्रहणसंसाधनप्राधिकरणस्य मुख्यकार्यकारी-अधिकारी भावना सक्सेना अवदत् यत् बालानाम् अवैधदत्तकग्रहणात् संरक्षणाय सम्पूर्णे बालसंरक्षणतन्त्रे जागरूकता सतर्कता च अत्यावश्यक्यौ स्तः। प्रत्येकं बालकं सुरक्षितं बाल्यं, सुरक्षितं भविष्यं, विधेः संरक्षणं च प्राप्नुयात्।
भावना सक्सेना गुरुवासरे सायंकाले दिल्लीसचिवालये आयोजितायां दत्तकग्रहण-जागरूकताकार्यशालायां अवैधरूपेण बालानां दत्तकग्रहणस्य निरोधनं तथा बालानां अधिकाराणां सुरक्षायाश्च सुदृढीकरणं प्रति एतत् उक्तवती। सा अवदत् यत् दत्तकग्रहणप्रक्रियायां कस्यापि प्रकारस्य संक्षिप्तमार्गस्य सम्भावना नास्ति तथा इच्छुकैः दत्तकमातृपितृभिः निर्धारितस्य नैयायिकप्रक्रियायाः एव पालनं करणीयम्।
कार्यशालायां बालसंरक्षण-दत्तकग्रहण-व्यवस्थाभ्यां सम्बद्धाः प्रायः २०० प्रतिभागिनः भागं गृहीतवन्तः। तेषु स्वास्थ्यविभागस्य आरक्षकविभागस्य च अधिकारिणः, बालकल्याणसमित्यः, जनपद-बालसंरक्षणैककाः, दत्तक-ग्रहणसंस्थाः, चिकित्सालयानां परिचर्यागृहाणां च प्रतिनिधयः, एएनएम्-कार्यकर्तारः, आङ्गनवाडी-कार्यकर्तारश्च इत्येतै: सह विभिन्नाः हितधारकाः सम्मिलिताः आसन्।
कार्यक्रमे कारायाः मुख्यकार्यकारी-अधिकारी भावना सक्सेना, दिल्लीसर्वकारस्य महिला-बालविकास-विभागस्य सचिवा रश्मि सिंह, दिल्ली-आरक्षकविभागस्य डीसीपी नेहा यादव:, अपर-आरक्षकायुक्ता मोनिका भारद्वाज:, दिल्लीबालाधिकार-संरक्षणायोगस्य अध्यक्षः ओपी व्यास तथा आउटर नॉर्थ-जनपदस्य मुख्यचिकित्सा-धिकारी डॉ. अनिलयादव: इत्यादयः वरिष्ठाधिकारिणः उपस्थिताः आसन्।
दिल्लीसर्वकारस्य सचिवा रश्मिसिंह: अवदत् यत् स्वास्थ्य-आरक्षकभागाभ्यां आरभ्य एएनएम्-कार्यकर्तॄन्, आङ्गन-वाडी-कार्यकर्तॄन्, जनपदबालसंरक्षणै-ककान्, बालकल्याण-समितीन् च यावत् सर्वेषां सम्बद्धपक्षाणां सहभागिता व्यापकजागरूकतायाः दिशि महत्त्वपूर्णं सोपानम् अस्ति। सामूहिक-प्रयत्नाः बालानां सुरक्षितस्य संरक्षितस्य च बाल्यस्य कृते संस्थागतप्रतिबद्धतां सुदृढीकुर्वन्ति।
कार्यशालायां अवैधदत्तकग्रहणस्य निवारणाय तस्य च निराकरणाय उपायानां विषये त्रिणी प्राविधिकसत्राणि आयोजितानि। प्रथमसत्रे अवैधदत्तक-ग्रहणस्य उद्भवमानाः प्रवृत्तयः, आव्हानानि, राज्यीय-राष्ट्रीयस्तरेषु क्रियमाणाः कार्यवाह्यश्च चर्चिताः। द्वितीयसत्रे चिकित्सालयानां, परिचर्या-गृहाणां, स्वास्थ्यव्यवस्थायाः, आरक्षक-विभागस्य न्यायपालिकायाश्च भूमिकायाः विषये विचारविमर्शः कृतः। तृतीयसत्रे नैयायिकपक्षेषु विचारः कृतः।
जागरूकताभियानस्य अन्तर्गतं कार्य-शालायां कानूनीदत्तकग्रहणमधिकृत्य निर्मितं चलचित्रम् अपि प्रदर्शितम्। चलचित्रस्य माध्यमेन अधिकृतदत्तक-ग्रहणप्रक्रियायाः पालनस्य महत्त्वं तथा अवैधदत्तकग्रहणेन सम्बद्धाः समस्या: सरलतया प्रभावीरूपेण च बोधयितुं प्रयासः कृतः।
अपि च अवैधदत्तकग्रहणस्य विरुद्धं धरातलस्तरे कृतानां प्रयत्नानां वास्तविकानुभवानां च आदान-प्रदानम् अपि कृतम्। कार्यशालायाः अन्ते अन्तःक्रियात्मकप्रश्नोत्तरी आयोजितेति, यस्मिन् प्रतिभागिभिः नैयायिक-प्रावधानानां स्वदायित्वानां च विषये स्वज्ञानस्य परीक्षणं कृतम्।
Hindusthan Samachar / Divya Ranjan