Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 11 सितंबरमासः (हि.स.)। प्रधानमन्त्रिकार्यालये राज्यमन्त्री डॉ. जितेन्द्रसिंहेन उक्तं यत् तटीयपारिस्थितिकी तथा तटीयसुरक्षा पृथक् कृत्वा न द्रष्टुं शक्येते। भारतस्य तटीयप्रदेशानां सुरक्षितस्य, स्थायिनः, समावेशिनश्च विकासाय स्वस्थस्य समुद्रीयपारिस्थितिकतन्त्रस्य, जागरूकानां समुदायानां, प्रभाविशासनस्य, सुदृढानां वैज्ञानिकक्षमतानां च विद्यमानत्वम् आवश्यकम् अस्ति। सः एतद् उक्तवान् यदा सः ‘तटीयपारिस्थितिकी, सुरक्षा तथा स्थिरता’ इति विषये राष्ट्रियसम्मेलनम् २०२६ इत्येतत् दूरदृश्यसम्पर्कमाध्यमेन सम्बोधितवान्।
सः उक्तवान् यत् सम्मेलनं पृथ्वीविज्ञानस्य, शिक्षायाः, रक्षायाः, समुद्रीयसंस्थानां, विधिविशेषज्ञानां, उद्योगस्य, तटीयसमुदायानां च सहितं विविधक्षेत्रेषु कार्यरतान् विशेषज्ञान् एकस्मिन् मञ्चे आनेतुं महत्त्वपूर्णम् अवसरं प्रददाति। अनेन तटीयचुनौतीनां व्यापकस्य समेकितस्य च दृष्टिकोणस्य माध्यमेन अवगमने साहाय्यं भविष्यति।
डॉ. जितेन्द्रसिंहेन महासागरविज्ञानस्य राष्ट्रियनीतिना सह संयोजनस्य आवश्यकतायां बलं प्रदत्तम्। सः उक्तवान् यत् वैज्ञानिकज्ञानस्य उपयोगः तटीययोजनायां प्रबन्धने च प्रत्यक्षरूपेण करणीयः। तटीयसमुदायानां आजीविकां, पारम्परिकज्ञानं, तेषां सहभागितां च स्थायितटीयविकासस्य महत्त्वपूर्णं भागं वर्णयन् सः उक्तवान् यत् स्थानीयसमुदायान् विकासप्रक्रियायां सक्रियसहभागिनः कर्तुं आवश्यकम् अस्ति।
सः उक्तवान् यत् भारतस्य तटीयमूलसंरचना तथा पत्तनानि देशे सम्पर्कव्यवस्थायाः, व्यापारस्य, आर्थिकविकासस्य च महत्त्वपूर्णानि केन्द्राणि सन्ति। एतेषाम् सम्पत्तीनां स्थायिविकासाय तटीयस्य समुद्रीयस्य च पर्यावरणस्य वैज्ञानिकबोधः आवश्यकः अस्ति।
केन्द्रीयमन्त्रिणा ‘स्वच्छसमुद्रः सुरक्षितसमुद्रः’ इति अभियानस्य अपि उल्लेखः कृतः। सः अवदत् यत् एतद् अभियानं विगतेभ्यः पञ्चभ्यः वर्षेभ्यः प्रचलति। वर्षे २०२२ तमे अस्य आरम्भः पञ्चसप्ततिदिवसीय-अभियानरूपेण अभवत्, यस्मिन् तटीयराज्यानां नागरिकैः विभिन्नैः हितधारकैः च सहभागिता कृता आसीत्। सः उक्तवान् यत् अस्मिन् वर्षे अभियानं द्वादशसितम्बरतः एकोनविंशतिसितम्बरपर्यन्तं प्रचलिष्यति। अस्य अन्तर्गते समुद्रतटानां स्वच्छतासहिताः विविधाः गतिविधयः आयोजयिष्यन्ते, यासु गैरसर्वकारीयसंस्थानां विभिन्नसंस्थानां च सहभागिता भविष्यति।
सः नागरिकानां सहभागितां वर्धयितुं भारतस्य तटरेखां स्वच्छां स्थापयितुं शपथस्य आरम्भस्य विषये अपि सूचितवान्। डॉ. जितेन्द्रसिंहेन उक्तं यत् भारताय समग्रस्य तटीयभारतस्य दृष्टिकोणस्य विकासः करणीयः, यस्मिन् पर्यावरणीयस्थिरता, आर्थिकावसराः, वैज्ञानिकक्षमता, तटीयसुरक्षा च परस्परं सुदृढीकरणं कुर्वन्तु।
सः पृथक्-पृथक् क्षेत्रेषु कार्यं कर्तुं स्थाने समेकितसंरचनायाः दिशि अग्रे गन्तुं आवश्यकतां प्रतिपादितवान्, येन वैज्ञानिकज्ञानं सहयोगस्य, अनुसन्धानस्य, व्यावहारिकक्रियायाः च माध्यमेन सुरक्षिते, स्थायिनि, समृद्धे च तटीयभविष्ये परिणेतुं शक्नुयात्।
-----------
Hindusthan Samachar / Dheeraj Maithani