छत्तीसगढ़े ‘हनुमान अंश’-चलचित्रं करमुक्तं भविष्यति – मुख्यमन्त्री विष्णुदेवसायः
रायपुरम्, ११ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः ‘हनुमान अंश’ इति चलचित्रं छत्तीसगढ़े करमुक्तं कर्तुं घोषणां कृतवान्। गुरुवासरे रात्रौ राजधानी रायपुरस्य जोरा-मॉल-स्थिते चलचित्रगृहे सपरिवारं चलचित्रं दृष्ट्वा सः एतां घोषणां कृतवान्। अ
मुख्यमंत्री विष्णुदेव साय सपरिवार फिल्म 'हनुमान अंश'   देखते हुए


रायपुरम्, ११ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः ‘हनुमान अंश’ इति चलचित्रं छत्तीसगढ़े करमुक्तं कर्तुं घोषणां कृतवान्। गुरुवासरे रात्रौ राजधानी रायपुरस्य जोरा-मॉल-स्थिते चलचित्रगृहे सपरिवारं चलचित्रं दृष्ट्वा सः एतां घोषणां कृतवान्। अस्मिन् अवसरे राज्यपालः रमन-डेक्का, विधानसभाध्यक्षः डॉ. रमनसिंहः, मन्त्रिपरिषदः सदस्याः तथा विभिन्नानां निगम-मण्डलानां आयोगानां च अध्यक्षाः अपि उपस्थिताः आसन्।

मुख्यमन्त्री सायः अवदत् यत् भारतीयसंस्कृतिम्, आध्यात्मिकपरम्परां सन्तपरम्परां च आधृतानि प्रेरणादायकानि चलचित्राणि अधिकाधिकजनानां यावत् प्रापयितव्यानि। सः अवदत् यत् चलचित्रस्य करमुक्तीकरणेन प्रदेशस्य अधिकाधिकदर्शकानां, विशेषतः यूनां, भारतस्य समृद्धां सन्तपरम्परां तस्याः जीवनमूल्यानि च ज्ञातुं अवगन्तुं च अवसरं प्राप्स्यति।

सः अवदत् यत् भारतस्य सन्तपरम्परया सदैव समाजाय सत्यस्य, सेवायाः, करुणायाः, प्रेम्णः आध्यात्मिकतायाश्च मार्गः प्रदर्शितः। नीमकरौलीबाबा-महोदयस्य जीवनम् अस्याः परम्परायाः प्रेरणादायकम् उदाहरणम् अस्ति। तस्य जीवनं सन्देशं ददाति यत् मानवसेवा एव ईश्वरस्य सेवा अस्ति।

मुख्यमन्त्री अवदत् यत् नीमकरौलीबाबा स्वस्य सरलजीवनेन सहजवचनैश्च प्रेम्णः, सेवायाः भक्तेश्च सन्देशं दत्तवान्। तस्य विचाराः अद्यापि समाजं सकारात्मकदिशि नेतुं समर्थाः सन्ति।

सायः चलचित्रस्य निर्मातुः, निर्देशकस्य, कलाकाराणां सम्पूर्णस्य च दलस्य प्रशंसां कृत्वा अवदत् यत् चलचित्रं केवलं मनोरञ्जनस्य माध्यमं न, अपि तु समाजे विचाराणां, संस्काराणां प्रेरणायाश्च प्रसारणस्य प्रभावी माध्यममपि अस्ति। सः अवदत् यत् भारतीयसंस्कृतिं जीवन-मूल्यानि च आधृतानि सकारात्मकानि चलचित्राणि नववंशं स्वस्य मूलैः सह संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

उल्लेखनीयं यत् ‘हनुमान अंश’ इति चलचित्रं नीमकरौलीबाबा-महोदयस्य जीवनम्, तस्य आध्यात्मिकयात्रां तथा सेवायाः भक्तेश्च सन्देशम् आधृत्य निर्मितम् अस्ति।

Hindusthan Samachar / Divya Ranjan