Enter your Email Address to subscribe to our newsletters


नवदेहली, ११ सितम्बरमासः (हि.स.)। केन्द्रीयवाणिज्योद्योगमन्त्री पीयूषगोयलेन ब्रिक्सस्य सदस्यदेशेभ्यः स्वकीयभुक्तिप्रणालीनां परस्परं संयोजनं कर्तुं, स्थानीयमुद्रासु व्यापारं प्रोत्साहयितुं, विश्वे सर्वत्र च अङ्कीयव्यापारं अधिकं सुलभं कर्तुं शुक्रवासरे आग्रहः कृतः। वाणिज्यमन्त्रिणा नवदेहल्यां ‘ब्रिक्सव्यापारमञ्च २०२६’ इत्यस्य उद्घाटनसत्रे उक्तं यत् भारतं अङ्कीयसार्वजनिकमूलसंरचनायाः निर्माणस्य दिशि महत्त्वपूर्णाः पहलाः कृतवान् अस्ति। भारतस्य एकीकृतभुक्तिअन्तराफलकम् अर्थात् यूपीआई प्रतिवर्षं २५० अर्बाधिकव्यवहाराणां संख्यां पारितवान् अस्ति, या विश्वे व्यवहारसंख्यायाः दृष्ट्या अर्धाधिकं भवति।
तेन उक्तं, ‘‘अद्य यूपीआई एकादशदेशेषु स्वीकृतं भवति तथा च अहं ब्रिक्सस्य सदस्यदेशेभ्यः साझेदारदेशेभ्यश्च आग्रहं करिष्यामि यत् ते अस्माकं भुक्तिप्रणालीनां परस्परं संयोजनं कुर्वन्तु, परस्परस्य स्थानीयमुद्रासु व्यापारं कुर्वन्तु, अङ्कीयव्यापारं वैश्विकं कुर्वन्तु तथा भविष्यस्य उद्भवमानप्रौद्योगिकीनां कृते मिलित्वा कार्यं कुर्वन्तु।’’
गोयलेन उक्तं यत् साझेदारदेशानां मध्ये व्यापारः गभीरः सुदृढश्च भवितव्यः तथा आपूर्तिशृङ्खलासु विविधता भवितव्या, येन कस्मिन्नपि समये व्यापारः सदस्यदेशेषु कस्यचित् विकासस्य जनकल्याणस्य च बाधकः न भवेत्। गोयलेन ब्रिक्सदेशेभ्यः उक्तं यत् सदस्यदेशैः अमेरिकी-डॉलरमुद्रायाः आश्रयतां न्यूनीकर्तुं स्वकीयाः भुक्तिप्रणाल्यः संयोजनीयाः तथा स्थानीयमुद्रासु द्विपक्षीयव्यापारः वर्धनीयः।
तेन उक्तं यत् सुदृढायाः सुरक्षितायाश्च आपूर्तिशृङ्खलायै महत्त्वपूर्णखनिजाणां कच्चामालस्य च निर्बाधविनिमयः आवश्यकः। मन्त्रिणा व्यावसायिकजनानां आवागमनं सुकरं कर्तुं तथा महिला-उद्यमिभ्यः अन्तरराष्ट्रीयव्यापारमेलासु प्रदर्शनीषु च अधिकावसरान् प्रदातुं आवश्यकतायाः विषये विशेषं बलं दत्तम्।
अयं ‘व्यापारमञ्चः’ द्विदिवसीयस्य ब्रिक्सशिखरसम्मेलनस्य अतिरिक्ततया आयोजितः अस्ति। भारतं शनिवासरात् अस्य शिखरसम्मेलनस्य आतिथ्यं करिष्यति। रूस-यूक्रेनयुद्धस्य, अमेरिका-ईरानसंघर्षस्य कारणेन होर्मुजजलडमरूमध्यस्य अवरोधस्य, अमेरिकीप्रशासनस्य शुल्कनीतीनां च कारणेन उत्पन्नासु वर्धमानासु वैश्विक-आर्थिक-अनिश्चिततासु मध्ये एतत् सम्मेलनमपि आयोज्यमानम् अस्ति।
उल्लेखनीयं यत् ब्रिक्सः प्रभावशालिसमूहरूपेण उदितः अस्ति। अस्मिन् विश्वस्य एकादश प्रमुखाः उदयमानाः अर्थव्यवस्थाः सम्मिलिताः सन्ति, याः वैश्विकजनसंख्यायाः प्रायः ४९.५ प्रतिशतं, वैश्विकसकलघरेलूत्पादस्य प्रायः ४० प्रतिशतं तथा वैश्विकव्यापारस्य प्रायः २६ प्रतिशतं प्रतिनिधित्वं कुर्वन्ति।
Hindusthan Samachar / Dheeraj Maithani