Enter your Email Address to subscribe to our newsletters

झांसीमण्डलस्य सांसदैः सह ओरछापैलेस तथा कन्वेन्शनसेण्टर इत्यत्र उमरे महाप्रबन्धकस्य अध्यक्षतायां सभा आयोजिता
झांसी ११ सितम्बरमासः हि.स.। उत्तरप्रदेशस्य झांसीमण्डलस्य सांसदैः तेषां प्रतिनिधिभिश्च सह शुक्रवासरे ओरछापैलेस तथा कन्वेन्शनसेण्टर इत्यत्र उत्तरमध्यरेलवे महाप्रबन्धकस्य नरेशपालसिंहस्य अध्यक्षतायां सभा आयोजिता। सभायां रेलवेमूलसंरचना यात्रिसुविधाः नूतनरेलयानानि विरामस्थानानि क्षेत्रीयसम्पर्कव्यवस्था च इत्येतैः सम्बद्धेषु विषयेषु विस्तरेण चर्चा अभवत्। सांसदैः मण्डले क्रियमाणानां विकासकार्याणां प्रशंसा कृता तथा च अनेकाः सुझावाः प्रदत्ताः।
महाप्रबन्धकेन उक्तं यत् झांसीमण्डले वर्षे २०२५ २६ प्रायः ४ दशमलव ५८ कोटिप्रारम्भिकयात्रिभ्यः रेलसेवाः प्रदत्ताः। यात्रिभ्यः प्राप्तया आयया १०१६ कोटिरूप्यकाणि तथा मालवहनात् प्रायः ९४७ दशमलव १५ कोटिरूप्यकाणां आयः प्राप्ता। यात्रिणां मागध्यानुसारं १४ युगलरेलयानानां १० रेलस्थानकेषु १४ नूतनविरामस्थानानि प्रदत्तानि। मेलापर्वणां ग्रीष्मकालस्य उत्सवानां परीक्षाणां च विशेषरेलयानानि समावेश्य ६४८ विशेषयात्राः सञ्चालिताः। वन्देभारत रेलयानसहितयोः द्वयोः युगलयोः नूतनरेलयानयोः सञ्चालनमारम्भः कृतः। चतसृणां युगलानां मेमु रेलयानानां डब्बासंख्या अष्टतः द्वादशपर्यन्तं वर्धिता।
मूलसंरचनाक्षेत्रे मण्डले ९३ किलोमीटरपरिमिता नूतनरेलरेखा निर्मिता। विंशतिब्लॉकखण्डेषु १५७ दशमलव ६७ किलोमीटरपरिमितायां वैद्युतिक अन्तःसंयोजनाधारित स्वचालितसंकेतव्यवस्था प्रारब्धा। ६८ दशमलव ५ किलोमीटरपरिमितायां कवचव्यवस्थायाः संस्थापनकार्यं समापितम्। महाप्रबन्धकेन उक्तं यत् वीराङ्गनालक्ष्मीबाई झांसी जंक्शन ग्वालियर जंक्शन तथा खजुराहो रेलस्थानकानि रेलस्थानकपुनर्विकासयोजनायाः अन्तर्गतं विकसितानि क्रियमाणानि सन्ति। अमृतभारत रेलस्थानकयोजनायां समाविष्टेषु १६ रेलस्थानकेषु षट् रेलस्थानकानां कार्यं पूर्णम् अभवत्।
सभायां सांसद अनुरागशर्मणा ललितपुर रेलस्थानकस्य विकासकार्यं शीघ्रं पूर्णं कारयितुं बरुआसागरे बुन्देलखण्ड एक्सप्रेस रेलयानस्य विरामं कारयितुं तथा च ३६७ ३६९ ३४१ सङ्ख्यकानां रेलफाटकानां कार्याणि शीघ्रं सम्पादयितुं सुझावाः प्रदत्ताः। तेन लखनऊ इन्टरसिटी रेलयानं ललितपुरपर्यन्तं विस्तारणीयम् इति सुझावः अपि प्रदत्तः। बीडां रेलजालकेन सह सम्बद्धं कर्तुं भोपाल लखनऊ शयनयानयुक्तं वन्देभारत रेलयानं तथा पर्यटनाय बुन्देलखण्डपरिपथरेलयानं सञ्चालयितुं च तेन आग्रहः कृतः।
भिण्ड दतिया सांसद संध्यारायया बसईस्थाने उत्कल एक्सप्रेस रेलयानस्य विरामं तथा भिण्डनगरं नवदेहलीनगरेण सह रेलमार्गेण संयोजयितुं च आग्रहः कृतः। उरई जालौन सांसद नारायणदास अहिरवारेण उरईतः नवदेहलीपर्यन्तं रेलयानस्य तथा कोंचतः कानपुरपर्यन्तं प्रत्यक्षरेलसेवायाः सुझावः प्रदत्तः। मुरैना सांसद शिवमंगलसिंह तोमरेण गोवा एक्सप्रेस तथा गतिमान एक्सप्रेस रेलयानयोः मुरैनायां विरामं तथा ग्वालियर श्योपुर रेलमार्गस्य आमानपरिवर्तनकार्यं शीघ्रं पूर्णं कर्तुं च आग्रहः कृतः। बांदा सांसद कृष्णादेवी शिवशंकर पटेलेन अतर्रा रेलस्थानकस्य विकासस्य तथा चित्रकूटधाम कर्वीतः रामेश्वरपर्यन्तं नूतनरेलयानस्य सञ्चालनस्य सुझावः प्रदत्तः। राज्यसभा सांसद महेश केवटेण ओरछायां गतिमान एक्सप्रेस तथा ताज एक्सप्रेस रेलयानयोः सञ्चालनस्य आग्रहः कृतः।
रेलप्रशासनेन सर्वेषां परामर्शानां गम्भीरतया विचारं कृत्वा यथोचितकार्यवाही करिष्यामः इति आश्वासनं प्रदत्तम्। सभायां डीआरएम अनिरुद्धकुमारसहिताः रेलविभागस्य वरिष्ठाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani