Enter your Email Address to subscribe to our newsletters

मथुरा, 11 सितम्बरमासः (हि.स.)। सन्तप्रेमानन्दमहाराजस्य जीवनं, साधना च आध्यात्मिकयात्रा च अधुना बृहद्पर्दे प्रदर्शयितुं सज्जता
शुक्रवासरे आध्यात्मिकयात्रायै वृन्दावनं प्राप्ता किन्नरजगद्गुरुः महामण्डलेश्वरी हिमाङ्गीसखी सन्तप्रेमानन्दमहाराजस्य जीवने आधारितां जीवनचरितप्रधानां चलचित्रनिर्माणस्य घोषणा कृतवती। चलचित्रस्य प्रस्तावितं नाम ‘प्रेमानन्दमहाराजः एण्ड् राधांशः’ इति निर्धारितम् अस्ति।
बाबानीमकरौलीमहाराजस्य जीवने आधारितस्य ‘हनुमानांशः’ इति चलचित्रस्य बृहत्सफलतायाः अनन्तरं वैष्णवकिन्नर-अखाडस्य जगद्गुरुः शङ्कराचार्या हिमाङ्गीसखी सन्तप्रेमानन्दमहाराजस्य जीवने आधारितं ‘राधांशः’ इति नाम्ना चलचित्रं निर्मातुं घोषणा कृतवती। ‘हनुमानांशः’ इति चलचित्रं विगतैः पञ्चत्रिंशद्भिः दिवसैः चलचित्रगृहेषु सफलतापूर्वकं प्रदर्शितं भवति तथा च शीघ्रमेव द्विशतकोटिक्लबे प्रवेशं कर्तुं सम्भावना अस्ति। अस्य चलचित्रस्य सफलतां तथा बाबानीमकरौलीमहाराजस्य प्रति जनानां गहनां भक्तिं दृष्ट्वैव हिमाङ्गीसख्याः सन्तप्रेमानन्दमहाराजस्य जीवने चलचित्रनिर्माणस्य प्रेरणा प्राप्ता।
हिमाङ्गीसख्याः चलचित्रस्य निर्माणसमूहेन सह चर्चा अपि कृता अस्ति तथा च निर्माणसमूहोऽपि अस्य चलचित्रस्य निर्माणाय सहमतः अस्ति। तथापि सन्तप्रेमानन्दमहाराजस्य तस्य सहयोगिनां च पक्षतः आधिकारिकानुमतिः अद्यापि प्राप्तव्या अस्ति। हिमाङ्गीसखी स्पष्टं कृतवती यत् यदा महाराजस्य तस्य सहयोगिनां च अनुमतिः प्राप्स्यते, तदैव शीघ्रं चलचित्रस्य पूर्वावलोकनचित्रं प्रचारचित्रं च सज्जीकृत्य प्रदर्शयिष्येते।
हिमाङ्गीसख्याः बाल्यकालः ब्रजस्य कुञ्जवीथीषु व्यतीतः तथा च तस्याः मनः पूर्णतया राधाभावेन ओतप्रोतं वर्तते। अतः तस्यै एषः प्रकल्पः केवलं चलचित्रं न, अपि तु गहनः आध्यात्मिकः सम्बन्धः अस्ति। चलचित्रस्य कलाकारचयनस्य विषये तया स्पष्टं कृतं यत् केवलं तेषामेव कलाकाराणां प्राथमिकता भविष्यति, येषां नामानि सन्तप्रेमानन्दमहाराजस्य सहयोगिनः अनुशंसिष्यन्ति।
एतदतिरिक्तं भारतीयक्रिकेटक्रीडकं विराटकोहलीं तथा अभिनेत्रीम् अनुष्काशर्मां च अस्मिन् प्रकल्पे सहयोगाय आमन्त्रयितुम् इच्छां हिमाङ्गीसखी व्यक्तवती। विराटकोहली-अनुष्काशर्मणौ प्रायः वृन्दावनं गत्वा सन्तप्रेमानन्दमहाराजस्य आशीर्वादं प्राप्नुतः। अतः तयोः चलचित्रे सहभागितां प्रति अटकला अपि प्रचलति। तथापि अस्मिन् चलचित्रे कार्यं कर्तुं तयोः पक्षतः अद्यावधि कापि आधिकारिकपुष्टिः न प्राप्ता।