Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ११ सेप्टेम्बरमासः (हि.स.)। बस्तर-लोकसभाक्षेत्रस्य सांसदः महेश-कश्यपः दिल्लीप्रवासस्य समये शुक्रवासरे भारतीयजनतापक्षस्य प्रदेशाध्यक्षेन जगदलपुरस्य विधायकैः किरणदेवेन सह छत्तीसगढ-भवने मिलित्वा तस्य स्वास्थ्यस्य विषये सूचनां प्राप्तवान् तथा च शीघ्रं पूर्णस्वास्थ्यलाभं कामितवान्। पूर्वमपि बस्तरसम्भागस्य सांसदाः मेदान्ता-चिकित्सालयं गत्वा तस्य कुशलक्षेमम् अपृष्टवन्तः।
उल्लेखनीयं यत् भाजपायाः प्रदेशाध्यक्षः किरणसिंहदेवः गतस्य जुलाईमासस्य समीपे मार्गदुर्घटनायाम् आहतः अभवत्। तस्य चिकित्सोपचारः दिल्लीस्थिते मेदान्ता-चिकित्सालये अभवत्। ततः चिकित्सकानां परामर्शानुसारं सः चिकित्सालयात् विसर्जितः अभवत्। सम्प्रति सः चिकित्सकानां परामर्शानुसारं छत्तीसगढ-भवने शय्याविश्रान्तिं कुर्वन् अस्ति। तस्य स्वास्थ्यस्य विषये मुख्यमन्त्री विष्णुदेवसायः, उपमुख्यमन्त्री अरुणसाय:, विजयशर्मा इत्येतै: च सह प्रदेशसर्वकारस्य मन्त्रिणः, सांसदाः विधायकाश्च निरन्तरं तेन सह मिलित्वा स्वास्थ्यस्य सूचनां प्राप्नुवन्ति।
सांसदः महेशकश्यपः उक्तवान् यत् प्रदेशाध्यक्षः किरणदेवः स्वास्थ्यलाभं कुर्वन् शय्याविश्रान्तौ अस्ति, किन्तु सङ्गठनं प्रति तस्य सक्रियता समर्पणं च अद्यापि प्रेरणादायकम् अस्ति। स्वास्थ्यलाभस्य समयेऽपि सः सङ्गठनस्य सभाः, कार्यशालाः, आगामीकार्यक्रमांश्च विषये दूरभाष-संवादेन दृश्य-दूरभाष-संवादेन च कार्यकर्तृभिः पदाधिकारिभिश्च निरन्तरं संवादं कुर्वन् अस्ति तथा आवश्यकं मार्गदर्शनं प्रददाति। तस्य एतत् समर्पणं सर्वेषां कार्यकर्तॄणां कृते प्रेरणास्रोतः अस्ति। वयं सर्वे तस्य शीघ्रं पूर्णस्वास्थ्यलाभं कामयामहे।
अस्मिन् अवसरे भाजपायाः प्रदेशकार्य-समित्याः सदस्याः रामाश्रयसिंहः, बलदेव-माण्डवी, कामदेवबघेलः, वनवासी-मौर्यः तथा सतीशबाजपेयी च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan