Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 11 सितंबरमासः (हि.स.)। राष्ट्रीयवनशहीददिवसस्य अवसरे वनशहीदकर्मिभ्यः श्रद्धाञ्जलिः
राष्ट्रीयवनशहीददिवसस्य अवसरे शुक्रवासरे देहरादूने विभिन्नेषु कार्यक्रमेषु वनानां वन्यजीवानां च सुरक्षा-संरक्षणयोः समये स्वप्राणानां बलिदानं कृतवद्भ्यः वनकर्मिभ्यः श्रद्धाञ्जलिः समर्पिता। वनानुसन्धानसंस्थाने (एफ.आर.आई.) स्थिते फॉरेस्टर् स्मारके अंसारीमार्गस्थिते वनशहीदस्मारके च आयोजितेषु कार्यक्रमेषु वनाधिकारिभिः, वैज्ञानिकैः कर्मचारिभिश्च शहीदवनकर्मिणः स्मृताः।
एफ.आर.आई. संस्थायाः ब्रैंडिसमार्गस्थिते फॉरेस्टर् स्मारके आयोजितस्य कार्यक्रमस्य प्रारम्भः द्विनिमेषीयेन मौनाचरणेन अभवत्। ततः वरिष्ठवनाधिकारिभिः, वैज्ञानिकैः, इन्दिरागान्धीराष्ट्रियवनप्रशिक्षणाकादम्याः (आई.जी.एन.एफ.ए.) परिवीक्षार्थिभिः तथा केन्द्रीयराज्यवनसेवाकादम्याः (सी.ए.एस.एफ.ओ.एस.) प्रशिक्षुभिश्च स्मारके पुष्पाञ्जलिः समर्पिता।
अस्मिन् अवसरे वनपर्यावरणमहानिदेशकः तथा वनपर्यावरणजलवायुपरिवर्तनमन्त्रालयस्य विशेषसचिवः सुशीलकुमार अवस्थी, भारतीयवानिकीअनुसन्धानशिक्षापरिषदः (आई.सी.एफ.आर.ई.) महानिदेशिका कञ्चनदेवी, आई.जी.एन.एफ.ए. निदेशकः डॉ. राजेन्द्रप्रसादखजूरिया, भारतीयवन्यजीवसंस्थानस्य निदेशकः डॉ. गोविन्दसागरभारद्वाजः, एफ.आर.आई. निदेशकः डॉ. सुधीरकुमारः इत्यादयः वरिष्ठाधिकारिणः उपस्थिताः आसन्।
अन्यत्र अंसारीमार्गस्थिते वनशहीदस्मारकस्थले प्रमुखवनसंरक्षकस्य (हॉफ) कपिललालस्य अध्यक्षतायां श्रद्धाञ्जलिकार्यक्रमः आयोजितः। कार्यक्रमे उपस्थितैः वनाधिकारिभिः कर्मचारिभिश्च द्विनिमेषं मौनमाचर्य शहीदवनकर्मिणः स्मृताः तथा स्मारके श्रद्धासुमनांसि समर्पितानि।
अस्मिन् अवसरे प्रमुखवनसंरक्षकः, वनपञ्चायत् एस.पी. सुबुद्धिः, प्रमुखवनसंरक्षकः तथा मुख्यवन्यजीवप्रतिपालिका नीना ग्रेवाल, अपरप्रमुखवनसंरक्षकः सुरेन्द्रमेहरा, मुख्यवनसंरक्षकः पी.के. पात्रः, मुख्यवनसंरक्षकः गढवालः डॉ. धीरजपाण्डेयः, शिवालिकवृत्तस्य वनसंरक्षकः राजीवधीमानः तथा राजाजीव्याघ्रारण्यस्य निदेशिका डॉ. कोको रोसे इत्यादयः अधिकारिणः उपस्थिताः आसन्।
कार्यक्रमेषु वनानां वन्यजीवानां च सुरक्षार्थं हुतात्मत्वं प्राप्तवद्भिः वनकर्मिभिः प्रदर्शितं साहसं, समर्पणं कर्तव्यनिष्ठां च स्मृतम्। वक्तारः अवदन् यत् वनहुतात्मनां बलिदानं वनानां वन्यजीवानां च संरक्षणस्य प्रति वनविभागस्य दायित्वं प्रतिबद्धतां च स्मारयति।
------------