Enter your Email Address to subscribe to our newsletters

काठमांडूः, 11 सितंबरमासः (हि.स.)।
गतस्यमासस्य २६ अगस्तदिनाङ्के तिब्बतप्रदेशात् भोटेकोशीनद्यां समागतया विनाशकारिण्या बाढ्या अभवतः क्षतेः अनन्तरं पुनर्निर्माणाय पुनर्स्थापनाय च ७ खरब २३ अरब ३१ कोटि ५२ लक्षरूप्यकाणां आवश्यकता भविष्यतीति अनुमानितम् अस्ति। सर्वकारस्य शीघ्रक्षतिनिर्धारण-आवश्यकतामूल्याङ्कनस्य (आरडीएनए) प्रतिवेदनानुसारं भोटेकोशीबाढ्या क्षतिग्रस्तानां भौतिकमूलसंरचनानां पुनर्निर्माणाय ७ खरब २३ अरब ३१ कोटि ५२ लक्षरूप्यकाणां आवश्यकता भविष्यति।
अद्यावधि १,३७७ जनानां प्राणान् हृतवती एषा विनाशकारिणी बाढ् रसुवा, नुवाकोट, धादिङ्ग इत्यादिषु अनेकेषु क्षेत्रेषु महतीं विनाशलीलां कृतवती। बाढ्या जनानां गृहाणि, कृषिक्षेत्राणि, व्यापारप्रतिष्ठानानि, मार्गाः, सेतवः, शुष्कबन्दराणि, मालवाहकपात्राणि सीमाचौक्येषु प्राप्तानि वाहनानि च प्रवाहेन नीतानि।
राष्ट्रिययोजनायोगस्य, राष्ट्रियविपद्जोखिमन्यूनीकरण-प्रबन्धनप्राधिकरणस्य च समेत्य विभिन्ननिकायानां संयुक्ततान्त्रिकदलः एतत् प्रारम्भिकमूल्याङ्कनं सज्जीकृतवान्। प्रतिवेदनानुसारं विपदया सर्वाधिकं प्रभावितस्य मूलसंरचनाक्षेत्रस्य पुनरुद्धाराय ४ खरब ३ अरब ५७ कोटि १९ लक्षरूप्यकाणां आवश्यकता भविष्यति, या समग्रपुनरुद्धारावश्यकतायाः प्रायः ७५ प्रतिशतं भवति।
ऊर्जाक्षेत्रे सर्वाधिकं क्षतिः
बाढ्या ऊर्जाक्षेत्रे मार्गमूलसंरचनायां च व्यापकं क्षतिः अभवत्। ७५९ मेगावाट्-क्षमतायुक्ताः १३ जलविद्युत्परियोजनाः तथा २४ मेगावाट्-क्षमतायुक्ताः ५ सौरविद्युत्संयन्त्राणि प्रभावितानि सन्ति। ऊर्जाक्षेत्रस्य विद्युद्ग्रीड्प्रणाल्याश्च पुनरुद्धाराय एव ३ खरब ९० अरब ६२ कोटि ३० लक्ष ४० सहस्ररूप्यकाणां आवश्यकता भविष्यतीति अनुमानितम् अस्ति।
तथैव ६९ किलोमीटर्-परिमिताः मार्गाः क्षतिग्रस्ताः सन्ति। ३३ वाहनयोग्यसेतवः प्रवाहेन नीताः, चत्वारः सेतवश्च आंशिकरूपेण क्षतिग्रस्ताः सन्ति। बाढ्प्रभावितक्षेत्रस्य ६४ झूलासेतुषु ५३ क्षतिग्रस्ताः अभवन्। सम्पूर्णस्य परिवहनमूलसंरचनायाः पुनरुद्धाराय ७३ अरब ३४ कोटि २९ लक्ष ६० सहस्ररूप्यकाणां आवश्यकता भविष्यति।
७,५७० निजीगृहाणि क्षतिग्रस्तानि
बाढ्या सामाजिक-उत्पादनक्षेत्रयोः अपि महती क्षतिः कृता। रसुवा, नुवाकोट, धादिङ्ग, गोरखा, चितवन इत्येतेषु जनपदेषु ७,५७० निजीगृहाणि क्षतिग्रस्तानि सन्ति। तदतिरिक्तं ४८ शासकीयभवनानि, १८ विद्यालयाः, ७ स्वास्थ्यसंस्थानानि तथा ३० सांस्कृतिकधरोहरस्थलानि प्रभावितानि सन्ति। एतेषां क्षेत्राणां पुनर्निर्माणाय पुनर्स्थापनाय च १ खरब ३ अरब ५४ कोटि ९९ लक्षरूप्यकाणां आवश्यकता भविष्यति।
व्यापार-वाणिज्य-बैंकिङ्ग-कृषि-समेतस्य उत्पादनक्षेत्रस्य पुनरुद्धाराय ५० अरब ७७ कोटि ४९ लक्षरूप्यकाणां आवश्यकता भविष्यतीति अनुमानितम् अस्ति। अस्मिन् क्षेत्रे १,८०६ हेक्टेयर् कृषिफसलानि, १७ बैंकशाखाः तथा ४,८०० व्यावसायिकप्रतिष्ठानानि प्रभावितानि सन्ति।
पञ्चसु जनपदेषु स्थितेषु १५ प्रभावितस्थानीयनिकायेषु केवलं नुवाकोटस्य विदुरनगरपालिकाक्षेत्रे ३,०२६ गृहाणि क्षतिग्रस्तानि सन्ति। प्रतिवेदने विपद्जोखिमन्यूनीकरणाय नदीप्रबन्धनाय च ९४ अरब ७५ कोटि ३१ लक्षरूप्यकाणि, पङ्क-मलबाप्रबन्धनाय च ५१ लक्ष ५४ सहस्ररूप्यकाणां आवश्यकता निर्दिष्टा अस्ति।
द्वयोः चरणयोः भविष्यति पुनर्निर्माणम्
प्रतिवेदनानुसारं पुनर्निर्माणकार्यं द्वयोः चरणयोः विभक्तम् अस्ति। आगामीषु षट्सु मासेषु तात्कालिकराहताय अल्पकालीनपुनर्निर्माणाय च ८ अरब ७३ कोटि ५० लक्षरूप्यकाणि व्ययितुं अनुमानितानि सन्ति। दीर्घकालीनपुनर्निर्माणाय तु ७ खरब १४ अरब ५८ कोटि २ लक्षरूप्यकाणां आवश्यकता भविष्यति।
राष्ट्रियविपद्जोखिमन्यूनीकरण-प्रबन्धनप्राधिकरणस्य वरिष्ठविभागीयाभियन्ता समितिसदस्यश्च सुशीलकुमारश्रेष्ठः अवदत् यत् सम्बन्धितमन्त्रालयेभ्यः, विभागेभ्यः निकायेभ्यश्च आँकडाः विवरणानि च सङ्गृह्य तेषाम् विश्लेषणं कृतम्। तदाधारेण क्षतेः पुनर्निर्माणाय आवश्यकसंसाधनानां च प्रारम्भिकप्रतिवेदनं सज्जीकृतम् अस्ति।
विपदनन्तरावश्यकतामूल्याङ्कनस्य प्रक्रिया प्रारब्धा, त्रिमासाभ्यन्तरे प्रतिवेदनस्य सम्भावना
सर्वकारेण विपदनन्तरं पुनर्निर्माणाय पुनर्स्थापनाय च विपदनन्तरावश्यकतामूल्याङ्कनस्य (पीडीएनए) प्रक्रियापि प्रारब्धा अस्ति। राष्ट्रिययोजनायोगेन अस्याः प्रक्रियायाः अग्रे कार्यवाही प्रारब्धा। आयोगस्य प्रवक्ता हरिशरणपुडासैनी इत्यस्य अनुसारं प्रायः त्रिमासाभ्यन्तरे पीडीएनए-प्रतिवेदनं सिद्धं भवितुं शक्नोति। सम्प्रति आयोगः प्रश्नावलीनिर्माणं क्षेत्रेषु गत्वा विस्तृताध्ययनं च कर्तुं सज्जतां करोति।
तेन उक्तं यत् राष्ट्रियविपद्प्राधिकरणस्य पक्षतः प्रारम्भिकचरणस्य शीघ्रक्षतिः हानिमूल्याङ्कनं च पूर्णं कृत्वा प्रतिवेदनं सज्जीकृतम् अस्ति। अधुना तस्यैव आधारेण विस्तृतप्रतिवेदनं सज्जीकरिष्यते।
कस्य क्षेत्रस्य कृते कियती राशिः अपेक्षिता?
ऊर्जाक्षेत्रं विद्युद्ग्रीड्प्रणाली च — ३ खरब ९० अरब ६२ कोटि ३० लक्ष ४० सहस्ररूप्यकाणि।
परिवहनमूलसंरचना — ७३ अरब ३४ कोटि २९ लक्ष ६० सहस्ररूप्यकाणि।
निजीगृहाणि, सार्वजनिकभवनानि, विद्यालयाः, स्वास्थ्यसंस्थानानि, सांस्कृतिकधरोहरश्च — १ खरब ३ अरब ५४ कोटि ९९ लक्षरूप्यकाणि।
व्यापार-वाणिज्य-बैंक-कृषि-समेतं उत्पादनक्षेत्रम् — ५० अरब ७७ कोटि ४९ लक्षरूप्यकाणि।
विपद्जोखिमन्यूनीकरणं नदीप्रबन्धनं च — ९४ अरब ७५ कोटि ३१ लक्षरूप्यकाणि।
पङ्क-मलबाप्रबन्धनम् — ५१ लक्ष ५४ सहस्ररूप्यकाणि।
---------------
Hindusthan Samachar / Dheeraj Maithani