Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वतन्त्रता-सङ्ग्रामसेनानी, समाजसेवकः प्रसिद्धः गान्धीवादी नेता च आचार्यविनोबाभावे तस्य जन्मजयन्त्यवसरे श्रद्धाञ्जलिः अर्पिता।
प्रधानमन्त्री शुक्रवासरे ‘एक्स’-इत्यत्र प्रकाशिते सन्देशे अवदत् यत् ‘जय जगत्’ इति तस्य प्रेरणादायकम् आह्वानं सर्वाः सीमाः अतिक्रम्य मानवतायाः सर्वोच्चस्थानं स्थापयितुं सन्देशं ददाति। सः स्वस्य विविधप्रयत्नानां माध्यमेन सर्वेषां कल्याणाय सशक्तीकरणाय च कार्यं कृतवान्। समता, सम्मानं सेवा च इत्येतेषु आचार्यविनोबाभावे इत्यनेन अटूटविश्वासेन समाजस्य सर्वाधिकवञ्चितवर्गेभ्यः सम्बलं प्रदत्तम्।
उल्लेखनीयं यत् आचार्यविनोबाभावे इत्यस्य जन्म ११ सेप्टेम्बरमासे १८९५ तमे वर्षे महाराष्ट्रस्य कोङ्कणक्षेत्रे गागोदाग्रामे अभवत्। तस्य मूलनाम विनायक-नरहरिभावे इति आसीत्। सः महात्मागान्धिनः आध्यात्मिकउत्तराधिकारी इति मन्यते स्म। १९५१ तमे वर्षे विनोबाभावे पदयात्रां कुर्वन् भूमिस्वामिभ्यः स्वभूमेः किञ्चित् भागं दानरूपेण दातुम् आग्रहं कृतवान्। एषा भूमिः भूमिहीनेभ्यः निर्धनेभ्यः वितरिता। अनेन प्रयत्नेन अग्रे चलित्वा भूदानान्दोलनस्य व्यापकं रूपं प्राप्तम्। १९५८ तमे वर्षे सामुदायिक-नेतृत्वाय तस्मै प्रथमः अन्ताराष्ट्रियः रेमनमैग्सेसेपुरस्कारः प्रदत्तः। १९८३ तमे वर्षे तस्मै मरणोत्तररूपेण देशस्य सर्वोच्चनागरिकसम्मानं भारतरत्नम् इति पुरस्कारेण सम्मानितम्। आचार्यविनोबा-भावे इत्यस्य निधनं १५ सेप्टेम्बरमासे १९८२ तमे वर्षे अभवत्।
Hindusthan Samachar / Divya Ranjan