Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 11 सितंबरमासः (हि.स.)।
पुरीस्थिते श्रीजगन्नाथमन्दिरस्य रत्नभण्डारे संरक्षितानां बहुमूल्यानाम् आभूषणानाम् अन्येषां च मूल्यवानां वस्तूनां प्रचलिता सूचीकरणप्रक्रिया पूर्णतां प्राप्तेः अनन्तरम् अस्याः अन्तिमप्रतिवेदनं सार्वजनिकरूपेण न प्रकाशयिष्यते। ओडिशायाः विधिमन्त्री पृथ्वीराजहरिचन्दनः गुरुवासरे एतद्विषये सूचनां दत्तवान्।
माध्यमप्रतिनिधिभिः सह वार्तालापे हरिचन्दनेन रत्नभण्डारस्य प्रचलितस्य सूचीकरणस्य, श्रद्धालूनां सुगमदर्शनस्य, पुरीनगरस्य स्थानीयवासिभ्यः प्रस्तावितस्य विशेषदर्शनव्यवस्थायाः च सम्बन्धितानां महत्त्वपूर्णनिर्णयानां विषये सूचना प्रदत्ता।
विधिमन्त्री उक्तवान् यत् रत्नभण्डारे संरक्षितानां बहुमूल्यवस्तूनां गणना लेखाजोखं च मार्गशीर्षमासस्य अन्तपर्यन्तं पूर्णं भवितुं सम्भाव्यते। तेन उक्तं यत् सम्पूर्णा प्रक्रिया वर्षे १९७८ तमे निर्मितायाः सूच्याः आधारेण अग्रे प्रवर्तते।
तेन उक्तं यत् विद्यमानसूच्याः आधारेण सम्पूर्णं सूचीकरणं सिद्धं कृत्वा नूतना सूची निर्मीयते। तथापि रत्नभण्डारस्य अन्तिमसूची अथवा सूचीकरणप्रतिवेदनं सार्वजनिकरूपेण न प्रकाशयिष्यते।
हरिचन्दनेन सूचितं यत् दुर्लभानां बहुमूल्यानां च आभूषणानां त्रिविमीयमानचित्रणस्य, छायाचित्रणस्य, चलच्चित्राङ्कनस्य च कार्यमपि प्रचलति। तेन उक्तं यत् दुर्गापूजायाः अनन्तरमपि एषा प्रक्रिया किञ्चित्कालं यावत् प्रचलिष्यति तथा मार्गशीर्षमासस्य अन्तात् पूर्वं तस्याः पूर्णता अपेक्ष्यते।
तेन स्पष्टं कृतं यत् नूतनसूच्यया रत्नभण्डारे विद्यमानानां बहुमूल्यवस्तूनां अद्यतनः अभिलेखः सज्जीभविष्यति, किन्तु बहुमूल्यानाम् आभूषणानां विस्तृतविवरणं सार्वजनिकरूपेण उपलब्धं न करिष्यते।
श्रद्धालूनां सुगमदर्शनाय रैम्पाधारितपङ्क्तिव्यवस्था
श्रीजगन्नाथमन्दिरे श्रद्धालूनां सुगमस्य सुव्यवस्थितस्य च दर्शनस्य सम्बन्धे विधिमन्त्री उक्तवान् यत् आगामीषु त्रिषु चतुर्षु वा मासेषु नाटमण्डपे रैम्पाधारितपङ्क्तिव्यवस्था कार्यान्वितुं योजना अस्ति।
अस्याः व्यवस्थायाः उद्देश्यं श्रद्धालूनां आवागमनं पङ्क्तिव्यवस्थापनं च सुदृढं कृत्वा दर्शनं अधिकं सुविधाजनकं सुव्यवस्थितं च कर्तुम् अस्ति।
रैम्पव्यवस्थायाः प्रारूपनिर्माणस्य दायित्वं भारतीयप्रौद्योगिकीसंस्थानं भुवनेश्वरम् इत्यस्मै समर्पितम् अस्ति। प्रस्तावस्य शासकीयस्तरे समीक्षा अपि कृता अस्ति। ततः छत्तीसानियोगस्य पदाधिकारिभिः श्रीजगन्नाथमन्दिरप्रबन्धसमित्याः सदस्यैश्च सह अग्रिमविचारविमर्शं कृत्वा एषा व्यवस्था कार्यान्विता भविष्यति।
स्थानीयवासिभ्यः विशेषदर्शनव्यवस्था
विधिमन्त्रिणा इदमपि सूचितं यत् पुरीनगरस्य स्थानीयवासिभ्यः मन्दिरस्य उत्तरद्वारेण विशेषदर्शनस्य व्यवस्था भविष्यति।
अस्य प्रारंभस्य उद्देश्यं पुरीनगरस्य स्थानीयवासिभ्यः दर्शनस्य सुविधा प्रदातुं तथा मन्दिरे श्रद्धालूनाम् आवागमनं अधिकं सुव्यवस्थितं कर्तुम् अस्ति।
रत्नभण्डारस्य सूचीकरणप्रक्रिया तथा दर्शनव्यवस्थायाः सुधाराय क्रियमाणाः एते प्रयासाः श्रीमन्दिरस्य प्रबन्धनं सुदृढं कर्तुं तथा श्रद्धालूनां दर्शनानुभवं सुगमं कर्तुं राज्यसर्वकारस्य प्रयत्नानाम् अङ्गभूताः सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani