सहस्राधिकरिक्तपदानां सह नियोजनमेलके युवभ्यः जीविकायाः अवसरः प्राप्तः
बक्सरः, 11 सितंबरमासः(हि.स.)। जिलाप्रशासनस्य जिलानियोजनालयस्य च संयुक्ततत्त्वावधाने शुक्रवासरे बक्सरनगरस्य नगरभवने एकदिवसीयस्य नियोजन-सह-व्यवसायिकमार्गदर्शनमेलकस्य आयोजनं कृतम्। मेलकस्य उद्घाटनं बिहारविधानसभायाः सदस्येन आनन्दमिश्रेण, श्रमाधीक्षकेन
उद्घाटन में शामिल विधायक


बक्सरः, 11 सितंबरमासः(हि.स.)। जिलाप्रशासनस्य जिलानियोजनालयस्य च संयुक्ततत्त्वावधाने शुक्रवासरे बक्सरनगरस्य नगरभवने एकदिवसीयस्य नियोजन-सह-व्यवसायिकमार्गदर्शनमेलकस्य आयोजनं कृतम्। मेलकस्य उद्घाटनं बिहारविधानसभायाः सदस्येन आनन्दमिश्रेण, श्रमाधीक्षकेन जिलानियोजनपदाधिकारिणा च संयुक्तरूपेण दीपप्रज्वालनेन कृतम्।

मेलके निजक्षेत्रस्य २२ कम्पनयः स्वस्वस्थानकेषु उपस्थिताः भूत्वा सहस्राधिकानां रिक्तपदानां कृते रोजगारस्य अवसरान् उपलब्धीकृतवन्तः। कुलतः ७४२ जीवनवृत्तानि प्राप्तानि, येषु कम्पनीभिः प्रथमस्तरे ३८७ अभ्यर्थिनः संक्षिप्तरूपेण चयनिताः। एसआईएस इत्यादिभिः अन्याभिश्च कम्पनीभिः चयनितेभ्यः अभ्यर्थिभ्यः तत्रैव प्रस्तावपत्राणि अपि प्रदत्तानि।

राजकीय-आईटीआई इत्यस्य स्थानकस्य माध्यमेन २१ युवभ्यः व्यवसायिकमार्गदर्शनं प्रदत्तम्। स्थानीययुवकेषु उद्यमितायाः प्रोत्साहनस्य उद्देश्यम् अधिगम्य बक्सरस्य द्वाभ्यां स्टार्टअप-संस्थाभ्याम् अपि स्वोत्पादानां क्रियाकलापानां च प्रचार-प्रसाराय स्थानकानि उपलब्धीकृतानि।

मुख्यातिथिः आनन्दमिश्रः युवभ्यः नियोजनमेलकेषु अधिकाधिकसंख्यया भागं गृहीत्वा रोजगारस्य अवसरानां लाभं ग्रहीतुं आह्वानं कृतवान्। सः उक्तवान् यत् करियरस्य आरम्भकाले कार्यकौशलस्य प्रशिक्षणस्य च विषये विशेषं ध्यानं दातव्यम् तथा स्वस्य रुच्याः क्षमतायाश्च अनुरूपं विभिन्नेषु क्षेत्रेषु जीविकानाम् अवसराः अन्वेष्टव्याः।

---------------

Hindusthan Samachar / Dheeraj Maithani