राष्ट्रपतिः पुतिनः भारतम् आगतवान्, प्रधानमन्त्रिणा मोदिना सह अद्य द्विपक्षीयवार्ता
नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। रूसदेशस्य राष्ट्रपतिः व्लादिमिर-पुतिनः ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं भारतम् आगतवान्। पुतिनस्य विमानं रात्रौ प्रायः त्रिवादने नवदिल्लीं प्राप्तवान्। विमानपत्तने विदेशराज्यमन्त्रिणा के.वी.सिंहेन तस्य स्वागतं
ab788932cee4ff449d2ec584da8af2b7_1779399008.jpg


नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। रूसदेशस्य राष्ट्रपतिः व्लादिमिर-पुतिनः ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं भारतम् आगतवान्। पुतिनस्य विमानं रात्रौ प्रायः त्रिवादने नवदिल्लीं प्राप्तवान्। विमानपत्तने विदेशराज्यमन्त्रिणा के.वी.सिंहेन तस्य स्वागतं कृतम्। रक्त-वर्णीयपथस्य स्वागतानन्तरं सम्मान-रक्षकदलस्य अभिवादनं स्वीकृत्य पुतिनस्य समूह: विमानपत्तनात् प्रस्थितवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अद्य तस्य द्विपक्षीयवार्ता भविष्यति। रूसराष्ट्रपतिः राजधानी-दिल्लीस्थिते मौर्या-शेरटन-होटल इत्यत्र निवत्स्यति।

ब्रिक्स विश्वस्य प्रमुखानाम् उदयमानानाम् अर्थव्यवस्थानां प्रमुखम् अन्ताराष्ट्रिय-सङ्घटनम् अस्ति। फरवरी २०२२ तमे वर्षे यूक्रेनयुद्धस्य प्रारम्भात् अनन्तरं रूसदेशात् बहिः आयोजिते कस्यापि वैश्विककार्यक्रमे पुतिनस्य एष: प्रथमः व्यक्तिगतः सहभागः अस्ति। द्विपक्षीयवार्तायां एसयू-५७ युद्धविमानम्, अद्यतनीकृतं ब्रह्मोस-प्रक्षेपास्त्रेण सह विविधेषु रक्षासम्बन्धिषु सन्धिषु चर्चा भवितुं शक्नोति। भारतम् आगच्छन्तः विभिन्नदेशानां राष्ट्राध्यक्षाः अपि ब्रिक्स-सम्मेलनात् पृथक् प्रधानमन्त्रिणा मोदिना सह द्विपक्षीयवार्तां करिष्यन्ति।

चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गस्य भारतयात्रा तथा प्रधानमन्त्रिणा मोदिना सह तस्य वार्तायाः परिणामाः अस्थिर-वैश्विकपरिस्थितौ, विशेषतः पश्चिम-एशियायां यूक्रेनयुद्धे च, ब्रिक्स्-देशानां मध्ये सहयोगे प्रभावं जनयिष्यन्ति। मोदी-शी-जिनपिङ्गयोः तथा मोदी-पुतिनयोः बैठकयोः विषये सम्पूर्णस्य विश्वस्य दृष्टिः अस्ति, यतः अमेरिकी-राष्ट्रपतेः डोनाल्ड-ट्रम्प इत्यस्य निर्णयैः चिन्तिताः देशाः चीन-भारतयोः मध्ये विद्यमानस्य चिन्ताया: समाप्तिं द्रष्टुम् इच्छन्ति।

ब्रिक्स-सम्मेलने भागं ग्रहीतुं रूसदेशस्य विदेशमन्त्री सर्गेई-लावरोवः तथा रूसस्य प्रथमः उपप्रधानमन्त्री डेनिस-मन्तुरोवः अपि नवदिलीम् आगतवन्तौ। चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गः १२ सेप्टेम्बर-मासस्य अपराह्णे दिल्लीनगरम् आगमिष्यति। ब्रिक्स-देशानां शिखर-सम्मेलनस्य आयोजनम् अस्मिन् वर्षे भारते भवति।

ब्रिक्स-देशेषु के-के सन्ति?

ब्राजील-रूस-भारत-चीन-दक्षिणाफ्रिकादेशानां अतिरिक्तं वर्षे २०२४ तमे मिस्र, इथियोपिया, ईरान, सऊदी-अरबदेशः तथा संयुक्त-अरब-अमीरात् इत्येते पञ्च देशाः ब्रिक्स्-सङ्घे सम्मिलिताः। वर्षे २०२५ तमे इण्डोनेशिया-देशः अपि अस्मिन् सङ्घे सम्मिलितः। अतः एकादशदेशीयस्य अस्य समूहस्य प्रतिनिधयः भारतस्य राष्ट्रराजधानीं नवदिलीम् आगमिष्यन्ति।

Hindusthan Samachar / Divya Ranjan