Enter your Email Address to subscribe to our newsletters

लखनऊम्, ११ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः जन्मदिवसस्य अवसरे १७ सेप्टेम्बरतः १७ अक्तूबर २०२६ पर्यन्तं सञ्चाल्यमानं ‘सेवासङ्कल्प-अभियानम्’ अधिकृत्य उपमुख्यमन्त्री ब्रजेशपाठकेन शुक्रवासरे स्वकीयावासे आभासीयसभा आयोजिता। तेन स्वास्थ्यविभागस्य वरिष्ठाधिकारिभिः सह अभियानस्य अन्तर्गतं आयोज्यमानानां विभिन्नानां गतिविधीनां सज्जतायाः समीक्षा कृता तथा आवश्यकाः निर्देशाः प्रदत्ताः।
उपमुख्यमन्त्री उक्तवान् यत् अभियानस्य उद्देश्यम् सेवायाः, स्वास्थ्यस्य जन-कल्याणस्य च भावनां जनजनं प्रति प्रापयितुम् अस्ति। तेन अधिकारिभ्यः निर्देशः प्रदत्तः यत् अभियानस्य अन्तर्गतं भवितव्याः सर्वाः कार्यक्रमाः प्रभावीरूपेण सुव्यवस्थितरूपेण समयबद्धरूपेण च सञ्चाल्यन्ताम्, येन अधिकाधिक-नागरिकेभ्यः स्वास्थ्यसेवानां योजनानां च लाभः प्राप्तुं शक्यते। तेन उक्तं यत् अस्मिन् अभियाने श्रेष्ठप्रदर्शनं कुर्वन्तः चिकित्साधिकारिणः कर्मचारी च सम्मानिताः अपि करिष्यन्ते।
उपमुख्यमन्त्री ब्रजेशपाठकेन उक्तं यत् अभियानस्य अन्तर्गतं १७ सेप्टेम्बरदिनं सेवादिवसरूपेण आचरिष्यते। अस्मिन् दिने प्रदेशभरि रक्तदानशिबिराणि आयोजयि-ष्यन्ते। तस्मिन्नेव दिने सायं सप्तवादने प्रदेशस्य सर्वासु स्वास्थ्य-सेवाकेन्द्रेषु ‘आशीर्वादस्य दीपकः’ प्रज्वालयिष्यते। अस्य माध्यमेन सेवायाः समर्पणस्य जनकल्याणस्य च सन्देशः जनं जनं प्रति प्रापयिष्यते। अपरतः २५ सेप्टेम्बरतः २ अक्तूबरपर्यन्तं सम्पूर्णप्रदेशे व्यापकस्वास्थ्यशिबिराणि आयोजयिष्यन्ते। एतेषु शिबिरेषु सामान्यजनेभ्यः विविध-स्वास्थ्यसेवानां, परीक्षणसुविधानां तथा स्वास्थ्यविभागस्य जनकल्याण-कारीयोजनानां च लाभः उपलब्धः करिष्यते।
उपमुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् प्रत्येकस्मिन् जनपदे अभियानस्य गतिविधीनां कार्ययोजना पूर्वमेव सज्जीक्रियेत तथा सर्वेषां कार्यक्रमाणां नियमितरूपेण समीक्षा क्रियेत। तेन उक्तं यत् स्वास्थ्यविभागस्य योजनाः उपलब्धयश्च अधिकाधिकजनानां यावत् प्रापयितुं तथा पात्रलाभार्थिभ्यः योजनानां प्रत्यक्षलाभं प्रदातुं च अभियानस्य प्राथमिकता भवेत्।
आभासीयसभायां राज्यमन्त्री मयङ्केश्वर-शरणसिंहः, मन्त्री सोमेंद्रतोमरः, भाजपायाः उत्तरप्रदेशस्य उपाध्यक्षः कामेश्वरसिंहः, प्रमुखसचिवः (चिकित्सा तथा स्वास्थ्य) अमितकुमारघोषः इत्यादयः स्वास्थ्य-विभागस्य अन्ये वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Divya Ranjan