Enter your Email Address to subscribe to our newsletters

- भारत-नेपालयोः क्रीडासम्बन्धाः सुदृढाः
गुवाहाटी, ११ सितम्बरमासः (हि.स.)। भारत-नेपालयोः क्रीडासम्बन्धानां सुदृढीकरणस्य दिशि महत्त्वपूर्णोपक्रमस्य अन्तर्गतं भारतीयक्रीडाप्राधिकरणस्य गुवाहाटीस्थे राष्ट्रिय-उत्कृष्टता-केन्द्रे नेपालस्य मुक्कायोधानां उच्चप्रदर्शन-प्रशिक्षणशिबिरस्य आयोजनं कृतम् अस्ति। जापानदेशे आयोज्यमानानाम् आइचि-नागोया-एशियाईक्रीडानां पूर्वं नेपालस्य क्रीडकानां कृते भारतस्य उच्चस्तरीयक्रीडासुविधानां प्रशिक्षणव्यवस्थायाश्च लाभः अनेन शिबिरेण प्रदीयते।
नेपालस्य सप्त मुक्कायोधाः द्वौ प्रशिक्षकौ च १० अगस्ततः भारतीयक्रीडाप्राधिकरणस्य गुवाहाटीकेन्द्रे प्रशिक्षणं प्राप्नुवन्तः सन्ति तथा च १५ सितम्बरपर्यन्तम् अत्र स्थास्यन्ति। ततः दलम् एशियाईक्रीडानां कृते जापानदेशं प्रति प्रस्थास्यति। एशियाईक्रीडानाम् आयोजनं १९ सितम्बरतः भविष्यति। नेपाल-मुक्कायुद्ध-महासंघेन संयुक्तप्रशिक्षणस्य मैत्रीपूर्णमुक्कायुद्धप्रतियोगितानां च कृते भारतीयक्रीडाप्राधिकरणस्य गुवाहाटीकेन्द्रे प्रशिक्षणस्य औपचारिकः अनुरोधः कृतः आसीत्।
शुक्रवासरे भारतीयक्रीडाप्राधिकरणस्य गुवाहाटीकेन्द्रे आयोजितायां वार्ताहरसम्मेलने राष्ट्रिय-उत्कृष्टता-केन्द्रस्य प्रशिक्षकः नरेन्द्रराणा, भारतीयमुक्कायोधा अंकुशिता बोरो, नेपाल-मुक्कायुद्धदलस्य मुख्यप्रशिक्षकः राजश्रेष्ठः, ५१ किलोग्रामवर्गस्य नेपालीमुक्कायोधा रमिशा श्रेष्ठा तथा भारतीयक्रीडाप्राधिकरणस्य गुवाहाटीकेन्द्रस्य कार्यकारीनिदेशकः डी.के. मित्तलः उपस्थिताः आसन्।
डी.के. मित्तलः अवदत्, “नेपाल-मुक्कायुद्धदलम् गुवाहाटीस्थे राष्ट्रिय-उत्कृष्टता-केन्द्रे सुव्यवस्थितं प्रशिक्षणं प्रशिक्षकमार्गदर्शनं च प्राप्नोति। एतादृशाः क्रीडाविनिमयाः भारत-नेपालयोः सम्बन्धान् सुदृढीकर्तुं मैत्रीं सहयोगं परस्परसमझं च प्रवर्धयितुं साहाय्यं कुर्वन्ति। क्रीडा भारत-नेपालयोः जनान् संयोजयितुं शक्तिशाली माध्यमम् अस्ति।”
नेपालस्य क्रीडकाः राष्ट्रियक्रीडादिवसस्य समारोहस्य अपि भागं गृहीतवन्तः तथा भारतीयक्रीडकैः, प्रशिक्षकैः कर्मचारिभिश्च सह कार्यक्रमे सम्मिलिताः। तदतिरिक्तं ते केन्द्रे आयोजिते शिक्षकदिवससमारोहे अपि भागं गृहीतवन्तः। एताभिः गतिविधिभिः नेपालीक्रीडकानां प्रशिक्षणात् अतिरिक्तं भारतीयक्रीडासमुदायेन सह सम्पर्कं कर्तुं ऐक्यभावस्य च अनुभवः प्राप्तुं अवसरः प्राप्तः।
नेपालस्य दले रमिशा श्रेष्ठा (५१ किग्रा), अस्मिता दुवाल (५४ किग्रा), कुसुम तामाङ (६५ किग्रा), चन्द्रबहादुर थापा (५५ किग्रा), खगेन्द्र रोका मगर (६० किग्रा), दानबहादुर दर्लामी (७० किग्रा) तथा रबिन नेपाल (९० किग्रा) सम्मिलिताः सन्ति। दलस्य सह प्रशिक्षकौ राजश्रेष्ठः दीपक महार्जनश्च स्तः।
नेपालीमुक्कायोधेभ्यः भारतीयक्रीडाप्राधिकरणस्य मुक्कायुद्धप्रशिक्षकैः नरेन्द्रराणा, त्रिदीप बोरा तथा प्रणामिका बोरा इत्येतैः मार्गदर्शनं प्रदीयते। शिबिरे तान्त्रिकविकासः, शारीरिकक्षमता, रणनीतिकसिद्धता तथा प्रतियोगितायै मानसिक-क्रीडासिद्धतायां च ध्यानं दीयते। क्रीडकानां कृते केन्द्रे प्रशिक्षणं, प्रशिक्षकमार्गदर्शनम्, आवासः भोजनं च उपलब्धं कारितम् अस्ति।
क्रीडकेभ्यः चिकित्सकैः परिचारिकाभिश्च सह व्यापकं क्रीडाविज्ञान-चिकित्सासाहाय्यम् अपि प्रदीयते। अनेन तेभ्यः उच्चप्रदर्शनयुक्ते प्रशिक्षणवातावरणे स्वसिद्धतां सुदृढीकर्तुं अवसरः प्राप्यते।
राष्ट्रिय-उत्कृष्टता-केन्द्रस्य मुक्कायुद्धप्रशिक्षकः नरेन्द्रराणा अवदत्, “इदं प्रशिक्षणशिबिरं नेपालीभारतीयमुक्कायोधानां द्वयोरपि कृते अत्यन्तोपयोगी अनुभवः अभवत्। भारतीयसेनायाः मेघालयस्य च मुक्कायोधैः सह प्रशिक्षणेन अभ्यासमुक्कायुद्धप्रतियोगिताभिश्च नेपालीदलं सुदृढप्रतिस्पर्धात्मकं वातावरणं प्राप्तवान्। अनेन तेषां विभिन्नशैषीणां रणनीतिकपरिस्थितीनां च विषये कार्यं कर्तुं साहाय्यं प्राप्तम्। एशियाईक्रीडानां पूर्वं तेषां अन्तिमसिद्धतायां सहयोगं कृत्वा वयं प्रसन्नाः स्मः तथा आशास्महे यत् अयं अनुभवः आइचि-नागोयायां तेषां प्रदर्शनस्य उन्नतौ योगदानं करिष्यति।”
नेपालस्य ५१ किलोग्रामवर्गस्य मुक्कायोधा रमिशा श्रेष्ठा अवदत्, “गुवाहाटीस्थे राष्ट्रिय-उत्कृष्टता-केन्द्रे प्रशिक्षणम् अस्माकं कृते अद्भुतः अनुभवः अभवत्। अत्रत्याभिः सुविधाभिः, प्रशिक्षकम् मार्गदर्शनैः उच्चस्तरीयाभिः अभ्यासमुक्कायुद्धप्रतियोगिताभिश्च अस्माकं तान्त्रिक-शारीरिकक्षमतयोः उन्नतौ साहाय्यं प्राप्तम्। भारतीयक्रीडाप्राधिकरणस्य प्रशिक्षकाणां च सहयोगाय वयं कृतज्ञाः स्मः। सुदृढैः भारतीयमुक्कायोधैः सह सिद्धतां कर्तुं प्राप्तेन अवसरेण अस्माकं आत्मविश्वासः वर्धितः तथा अधुना वयम् एशियाईक्रीडानां कृते अधिकतया सिद्धाः स्मः।”
भारत-नेपालयोः क्रीडासहयोगः पुनरपि सुदृढः अभवत् यदा २४ तः २८ अगस्तपर्यन्तं भारतीयक्रीडाप्राधिकरणस्य क्षेत्रीयकेन्द्रे गुवाहाट्यां मैत्रीपूर्णमुक्कायुद्धप्रतियोगितानाम् आयोजनं कृतम्। एताभिः प्रतियोगिताभिः नेपालीक्रीडकानां कृते महत्त्वपूर्णः प्रतिस्पर्धात्मकः अनुभवः प्राप्तः तथा उभयदेशीयक्रीडकानां मध्ये क्रीडाभावना परस्परसौहार्दं च प्रवर्धितम्।
इदं प्रशिक्षणशिबिरं भारतीयक्रीडाप्राधिकरणस्य कृते विना कस्यापि व्ययेन आयोजितम् अस्ति। नेपाल-मुक्कायुद्ध-महासंघः अन्तरराष्ट्रीययात्रायाः, वीजायाः, चिकित्साबीमायाः अन्येषां आकस्मिकव्ययानां च वहनं करोति। एषः उपक्रमः भारतस्य क्रीडाभौतिकसंरचनायाः माध्यमेन समीपस्थदेशानां क्रीडकानां उच्चस्तरीयप्रतियोगितानां सिद्धतायै सहयोगं प्रदातुं दिशि महत्त्वपूर्णं पदम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani