भारतीय क्रिकेट नियन्त्रणमण्डले बेंगलूरुनगरे स्थिते उत्कृष्टता केन्द्रे क्रीडाविज्ञानचिकित्साशास्त्रप्रमुखपदाय आवेदनानि आमन्त्रितानि।
नवदेहली, ११ सितम्बरमासः। भारतीय क्रिकेट नियन्त्रणमण्डले शुक्रवासरे बेंगलूरुनगरे स्थिते उत्कृष्टता केन्द्रे क्रीडाविज्ञानचिकित्साशास्त्रप्रमुखपदाय आवेदनानि आमन्त्रितानि। अस्मिन् पदे चयनितः अभ्यर्थी नियन्त्रणमण्डलस्य उत्कृष्टस्तरीयक्रिकेटस्य उत्कृष्ट
बीसीसीआई लोगो


नवदेहली, ११ सितम्बरमासः। भारतीय क्रिकेट नियन्त्रणमण्डले शुक्रवासरे बेंगलूरुनगरे स्थिते उत्कृष्टता केन्द्रे क्रीडाविज्ञानचिकित्साशास्त्रप्रमुखपदाय आवेदनानि आमन्त्रितानि। अस्मिन् पदे चयनितः अभ्यर्थी नियन्त्रणमण्डलस्य उत्कृष्टस्तरीयक्रिकेटस्य उत्कृष्टता केन्द्रस्य च सम्बद्धानां क्रीडाविज्ञानचिकित्सासेवाना रणनीतिकं परिचालनात्मकं च नेतृत्वं प्रदास्यति।

अस्य पदस्य दायित्वेषु उत्कृष्टता केन्द्रस्य भौतिकचिकित्साप्रमुखस्य, भारतीयदलस्य भौतिकचिकित्साप्रमुखस्य, शक्तिक्षमताविकासप्रमुखस्य तथा भारतीयदलस्य शक्तिक्षमताविकाससमूहस्य नेतृत्वम् अपि अन्तर्भवति। चयनितः अभ्यर्थी राष्ट्रियदलस्य तथा उत्कृष्टता केन्द्रस्य प्रशिक्षकैः, क्रिकेटशिक्षाविभागेन अन्यैः प्रदर्शनविशेषज्ञैः च सह कार्यं कृत्वा भारतीयक्रीडकानां कृते एकीकृतसहायताकार्यक्रमान् निर्मास्यति।

भारतीय क्रिकेट नियन्त्रणमण्डलस्य अनुसारम् अस्मिन् पदे क्रीडककल्याणस्य, क्षतिनिवारणस्य पुनर्वासस्य, शारीरिकविकासस्य, अनुसन्धानस्य, नवाचारस्य तथा प्रासङ्गिकप्रौद्योगिकीनां सेवाना च स्वीकरणस्य विषये विशेषं ध्यानं दीयते।

क्रीडाविज्ञानचिकित्साशास्त्रप्रमुखस्य प्रमुखदायित्वेषु क्रीडाविज्ञानचिकित्साविभागस्य कृते रणनीतिकदृष्टिकोणस्य संरचनायाः च निर्माणम्, चिकित्सकीयस्य नैदानिकव्यवस्थायाः पर्यवेक्षणम्, सेवाप्रदानम्, जोखिमप्रबन्धनम् तथा क्रीडककल्याणस्य सुनिश्चितीकरणम् अन्तर्भवति। तदतिरिक्तं क्षतिनिवारणस्य, क्रीडकानां पुनर्प्राप्तेः पुनर्वासस्य, रोगस्वास्थ्यप्रबन्धनस्य तथा दीर्घकालिकशारीरिकविकाससम्बद्धानां कार्यक्रमाणां पर्यवेक्षणं करणीयम्।

अभ्यर्थिना प्रदर्शनमानकानां, गुणवत्ताप्रबन्धनस्य, अनुसन्धानस्य नवाचारस्य च प्रोत्साहनं करणीयम्। अस्मिन् विभागस्य अनुसन्धानप्रकोष्ठस्य विकासः तथा प्रमुखक्रीडाचिकित्सासंस्थानैः सह सहयोगस्थापनम् अपि अन्तर्भवति। विभागस्य योजना, अर्थसङ्कल्पः, प्रदर्शनप्रबन्धनं तथा व्यावसायिकविकासस्य दायित्वम् अपि चयनितस्य अभ्यर्थिनः भविष्यति।

अभ्यर्थिनः क्रीडाविज्ञाने अथवा सम्बन्धितविषये स्नातकोत्तरपदवी भवितव्या। शोधोपाधये प्राथमिकता दीयते। अभ्यर्थिना बहुविषयकप्रदर्शनसमूहानां प्रबन्धने रणनीतिकनेतृत्वस्य भूमिकायां न्यूनातिन्यूनं पञ्चवर्षाणाम् अनुभवः भवितव्यः।

अभ्यर्थिना व्यावसायिकेषु अथवा ओलम्पिकक्रीडासु उच्चप्रदर्शनयुक्तानां दलानां कृते क्रीडाविज्ञानस्य अथवा चिकित्साशास्त्रस्य सम्बन्धितानां रणनीतिकयोजनानां निर्माणस्य कार्यान्वयनस्य च व्यापकः अनुभवः भवितव्यः। सम्बन्धितक्रीडाविज्ञानस्य अथवा चिकित्साक्षेत्रस्य वर्तमानव्यावसायिकमान्यता अथवा अनुज्ञप्तिः अपि आवश्यकः अस्ति।

प्रदर्शनाधारितानुसन्धानस्य, क्रीडकानां दीर्घकालिकशारीरिकविकासस्य तथा क्षेत्रीयप्रदर्शनसंस्थानैः क्रीडासंस्थानैः च सह कार्यस्य अनुभवः वाञ्छनीयः मन्यते। मुख्यचिकित्साधिकारी अथवा चिकित्सानिदेशकस्य रूपेण पूर्वानुभवः, क्रीडाव्यायामचिकित्साशास्त्रे विशेषज्ञमान्यता तथा चिकित्सकीयनैदानिकशासनस्य अनुभवः अतिरिक्तयोग्यतारूपेण मन्यते।

अस्य पदस्य कृते एका रिक्तिः अस्ति तथा आयुः षष्टिवर्षेभ्यः न्यूना भवितव्या। चयनितः अभ्यर्थी बेंगलूरुनगरे स्थिते भारतीय क्रिकेट नियन्त्रणमण्डलस्य उत्कृष्टता केन्द्रे कार्यं करिष्यति तथा उत्कृष्टता केन्द्रस्य क्रिकेटप्रमुखं प्रति उत्तरदायी भविष्यति।

इच्छुकाः अभ्यर्थिनः सितम्बरमासस्य त्रिंशत्तमदिनाङ्कस्य सायं पञ्चवादनपर्यन्तं स्वीयानि आवेदनानि समर्पयितुं शक्नुवन्ति। आवेदनप्रक्रिया विस्तृतं कार्यविवरणं च भारतीय क्रिकेट नियन्त्रणमण्डलेन निर्गते आधिकारिकसूचनायां उपलब्धम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani