Enter your Email Address to subscribe to our newsletters

लखनऊ, 11 सितंबरमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी समेत्य प्रदेशस्य अनेकेषु जनपदेषु शुक्रवासरस्य प्रातःकालादेव वर्षा भवति। अतिवृष्टिं दृष्ट्वा मुख्यमन्त्रिणा योगी आदित्यनाथेन अधिकारिभ्यः उद्धार-राहतकार्याणां विषये निर्देशाः प्रदत्ताः।
मुख्यमन्त्रिणा योगिना अतिवृष्ट्या सम्भाव्यमानायाः जनहान्याः, पशुहान्याः आर्थिकहान्याश्चापि संज्ञानं गृहीतम्। तेन सर्वेभ्यः वरिष्ठाधिकारिभ्यः क्षेत्रेषु गत्वा कार्यं कर्तुं निर्देशाः प्रदत्ताः। मुख्यमन्त्रिणा उक्तं यत् सर्वेषां प्रभावितपरिवाराणां सम्भवसहायता प्रदेया। अधिकारिभिः प्रभावितपरिवारैः सह संवादं स्थापयित्वा उपलब्धा सर्वसम्भवा सहायता प्रदेया।
अतिवृष्ट्या आकाशीयविद्युत्पातेन च जाता जनहानिः, पशुहानिः आर्थिकहानिश्च आकलयित्वा चतुर्विंशतिघण्टाभ्यन्तरे क्षतिपूर्तिप्रदानस्य व्यवस्था सुनिश्चिता कार्या। जलप्लावनस्य कारणेन जनसामान्यस्य कापि समस्या न भवेत्। अस्मिन् विषये कस्यापि स्तरस्य उपेक्षा न भवितव्या।
एतदतिरिक्तं मुख्यमन्त्रिणा प्रदेशवासिभ्यः आह्वानं कुर्वता उक्तं यत् प्रतिकूले मौसमे आकाशीयविद्युत्पातस्य सम्भावना भवति। अतः अस्मिन् काले अनावश्यकरूपेण गृहात् बहिः न निर्गच्छन्तु। अतिवृष्टेः समये नदीनां जलाशयानां च जले स्नानं कुर्वद्भिः विशेषसावधानता अवश्यम् आचरितव्या।
Hindusthan Samachar / Dheeraj Maithani