Enter your Email Address to subscribe to our newsletters

वर्षया क्षतिग्रस्तान् मार्गान् तत्कालं वाहनगमनयोग्यान् कुर्वन्तु, वर्षाकालस्य अनन्तरं नवीनीकरणमपि क्रियताम् : मुख्यमन्त्री योगी
आगामिपर्वोत्सवानां पूर्वं प्रमुखमार्गान् प्राथमिकतया गर्तरहितान् कुर्वन्तु : मुख्यमन्त्री योगी
लखनऊ, ११ सितम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगिना आदित्यनाथेन वर्षया जलप्लावनेन च क्षतिग्रस्तानां मार्गाणां तत्कालं मरम्मतं कृत्वा तान् आवागमनयोग्यान् कर्तुं तथा वर्षाकालस्य अनन्तरं आवश्यकतानुसारं तेषां नवीनीकरणं कर्तुं निर्देशाः प्रदत्ताः। शुक्रवासरे लोकनिर्माणविभागस्य समीक्षासभायां तेन उक्तं यत् वर्षा अद्यापि प्रचलति, अतः मार्गाणां स्थितेः निरन्तरं निरीक्षणं क्रियताम् तथा वर्षया नूतनतया क्षतिग्रस्तानां मार्गाणामपि सर्वेक्षणं कारयितव्यम्।
मुख्यमन्त्रिणा उक्तं यत् आगामिषु पर्वोत्सवेषु बहुसंख्यकाः जनाः आवागमनं करिष्यन्ति। अतः प्रमुखमार्गेषु आवागमने कापि समस्या न भवेत्। तेन पर्वोत्सवानां पूर्वं आवश्यकमरम्मतकार्याणि नवीनीकरणकार्याणि च पूर्णं कर्तुं निर्देशाः प्रदत्ताः। मुख्यमन्त्रिणा स्पष्टं कृतं यत् गर्तरहितीकरणस्य कार्यं केवलं खण्डमरम्मतकार्यं यावत् सीमितं न भवेत्। यत्र मार्गस्य स्थितिः तत्कालं खराबा अस्ति, तत्र तं मार्गम् अधुना एव वाहनगमनयोग्यं क्रियताम् तथा वर्षाकालस्य समाप्तेः अनन्तरं आवश्यकतानुसारं स्थायिनवीनीकरणं क्रियताम्।
सभायां सूचितं यत् अतिवृष्ट्या सह द्रुतगामिमार्गाणां, राष्ट्रियमार्गाणां, रेलमार्गाणां च निर्माणाधीनपरियोजनानां कारणेन भारीवाहनानां आवागमनेनापि अनेके मार्गाः क्षतिग्रस्ताः सन्ति। एतेषां मार्गाणां विभागवारं सर्वेक्षणं क्रियते। सर्वेक्षणस्य आधारेण क्षतिग्रस्तमार्गानां चिह्नीकरणं कृत्वा गर्तरहितीकरणस्य विभागवारं लक्ष्याणि निर्धारितानि भविष्यन्ति।
आगामिपर्वोत्सवान् दृष्ट्वा प्रदेशे ६८१ महत्त्वपूर्णमार्गाः चिह्निताः सन्ति। एतेषु गणेशचतुर्थी, विश्वकर्मापूजा, नवरात्रिः, दीपावली, छठपूजा तथा कार्तिकपूर्णिमा इत्यादीनां प्रमुखपर्वणां समये अधिकजनावागमनयुक्ताः मार्गाः सम्मिलिताः सन्ति। एतेषां मार्गाणां प्राथमिकतायाः आधारेण उत्तमस्थितौ स्थापनायै सज्जता क्रियते।
मुख्यमन्त्रिणा केन्द्रीयसड़कपरिवहन-राजमार्गमन्त्रालयस्य अधिकारिभ्यः अपि तेषां कार्ययोजनायाः सूचना गृहीता। तदनन्तरं मण्डीपरिषदः, पञ्चायतीराजविभागस्य, सिञ्चाईविभागस्य, ग्राम्यविकासविभागस्य, नगरविकासविभागस्य, आवास-नगरीयनियोजनविभागस्य तथा आधारभूतसंरचना-औद्योगिकविकासविभागस्य कार्ययोजनानां समीक्षा कृता। तेन सर्वेषां सम्बन्धितविभागानां मध्ये उत्तमसमन्वयेन कार्यं कर्तुं बलं प्रदत्तम्।
विभागेन प्रस्तुतिकरणे सूचितं यत् गर्तरहितीकरणाभियाने ९ विभागानां मार्गाः सम्मिलिताः सन्ति। एतेषां विभागानां अधीनं प्रायः ४.३६ लक्षकिलोमीटर्-परिमिताः मार्गाः सन्ति। वर्तमानलक्ष्यानुसारं प्रायः ५० सहस्रकिलोमीटर्-परिमितान् मार्गान् गर्तरहितान् कर्तुं लक्ष्यं निर्धारितम् अस्ति, यस्मिन् अधुनापर्यन्तं प्रायः ५,७५१ किलोमीटर्-परिमिते मार्गे कार्यं पूर्णं कृतम् अस्ति। क्षतिग्रस्तमार्गाणां सर्वेक्षणस्य अनन्तरं विभागवारं लक्ष्यं अन्तिमरूपेण निर्धारितं भविष्यति।
नवीनीकरणस्य विशेषमरम्मतकार्याणां चापि समीक्षा कृता। विभागस्य अनुसारं नवीनीकरणाय प्रायः ३० सहस्रकिलोमीटर्-परिमितस्य तथा विशेषमरम्मतायै प्रायः पञ्चसहस्रकिलोमीटर्-परिमितस्य मार्गस्य लक्ष्यं निर्धारितम् अस्ति। अधुनापर्यन्तं नवीनीकरणकार्ये प्रायः १४ सहस्रकिलोमीटर्-परिमिते तथा विशेषमरम्मतकार्ये प्रायः ७०० किलोमीटर्-परिमिते प्रगतिः सूचिता।
मुख्यमन्त्रिणा उक्तं यत् मार्गः सामान्यजनस्य दैनिकजीवनेन प्रत्यक्षतया सम्बद्धः अस्ति। शिक्षणसंस्थानेषु, चिकित्सालयेषु, प्रमुखविपणिषु, शासकीयकार्यालयेषु तथा अन्येषु तादृशेषु स्थलेषु यत्र सामान्यजनस्य अधिकम् आवागमनं भवति, तत्रत्याः मार्गाः प्राथमिकतया स्वीकर्तव्याः। तेन अधिकारिभ्यः निर्देशाः प्रदत्ताः यत् एतेषु मार्गेषु तत्कालं कार्यं प्रारभ्यताम् तथा यत्र मरम्मतायाः आवश्यकता अस्ति, तत्र विना विलम्बं मार्गः आवागमनयोग्यः क्रियताम्। तेन उक्तं यत् कार्ये शीघ्रतया सह गुणवत्तायाः अपि पूर्णतया ध्यानं दीयताम्।
सभायां जलशक्तिमन्त्री स्वतन्त्रदेवसिंहः, औद्योगिकविकासमन्त्री नन्दगोपालगुप्तः ‘नन्दी’, पञ्चायतीराजमन्त्री ओमप्रकाशराजभरः, लोकनिर्माणविभागस्य राज्यमन्त्री ब्रजेशसिंहः, औद्योगिकविकासविभागस्य राज्यमन्त्री जसवन्तसिंहसैनी, जलशक्तिविभागस्य राज्यमन्त्री रामकेशनिषादः तथा ग्राम्यविकासविभागस्य राज्यमन्त्री विजयलक्ष्मीगौतमः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani