Enter your Email Address to subscribe to our newsletters

चिकित्सामहाविद्यालयेभ्यः चिकित्सा-लयेभ्यः, परिचारिकामहाविद्यालयेभ्यः छात्रावासेभ्यश्च विस्तारः
लखनऊ, ११ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे चिकित्साशिक्षायाः अभूतपूर्व-विस्तारानन्तरं योगीसर्वकारः इदानीं चिकित्सासंस्थानानाम् आधारभूत-संरचनां रोगिभ्यः प्रदीयमानाः स्वास्थ्यसुविधाश्च अधिकं सुदृढीकर्तुं महत्त्वपूर्णं पदं स्वीकुर्वन् अस्ति। चिकित्सा-शिक्षाविभागस्य अन्तर्गतं प्रदेशस्य विभिन्नेषु चिकित्सा-महा-विद्यालयेषु चिकित्सासंस्थानेषु च प्रायः १,६०६.८३ कोटिरूप्यकाणां ६५ परियोजनाः शिलान्यासाय लोकार्पणाय च सज्जाः सन्ति। एतासु प्रायः १,४००.७० कोटि-रूप्यकाणां ४४ परियोजनाः शिलान्यास-सम्बद्धाः, प्रायः २०६.१३ कोटिरूप्यकाणां २१ परियोजनाश्च लोकार्पणसम्बद्धाः सन्ति। चिकित्सा-महाविद्यालयेषु वर्धितानां छात्रस्थानानाम् अनुरूपं छात्रावासाः, व्याख्यानकक्षाः, परीक्षाभवनानि च निर्मीयन्ते। तदनन्तरं परिचारिका-महाविद्यालयः, आघातचिकित्साकेन्द्रम्, एमसीएच-केन्द्रम्, संक्रामकरोग-चिकित्सालयः, प्रत्यारोपण-एककम्, मलजलनिकास-व्यवस्था, जलापूर्तिव्यवस्था च विकसिताः क्रियन्ते।
लखनऊनगरे ८५५ कोटिरूप्यकैः १,०१०-शय्यात्मकः नवीनः चिकित्सालयः
प्रस्तावितपरियोजनासु लखनऊनगरस्य डॉ. राममनोहरलोहिया-आयुर्विज्ञान-संस्थानस्य परियोजना सर्वबृहती अस्ति। संस्थानस्य गोमतीनगरविस्तारे स्थिते नूतनपरिसरे निर्मितस्य भूमिगततलस्य उपरि १,०१०-शय्यात्मकस्य चिकित्सालय-भवनस्य निर्माणं प्रायः ८५५.०४ कोटिरूप्यकाणां व्ययेन प्रस्तावितम् अस्ति। एषा एका एव परियोजना प्रदेशस्य चिकित्साक्षेत्रे आधारभूतसंरचनायाः बृहद्विस्तारस्य सङ्केतं ददाति। तथैव गोरखपुर-चिकित्सामहाविद्यालये प्रायः ४३.६८ कोटिरूप्यकाणां व्ययेन बहुमतलीयं रोगिसहायक-आधुनिक-भोजनालयं प्रस्तावितम् अस्ति। कानपुर-चिकित्सामहाविद्यालये सम्बद्ध-चिकित्सालयेषु च नवीनविद्युत्ज-नित्रस्य स्थापनया सह प्रायः ४९.४० कोटिरूप्यकैः नवीनस्य संक्रामकरोग-चिकित्सालयस्य निर्माणस्य सज्जता क्रियते।
मेरठे आघातचिकित्सातः मातृ-शिशु-स्वास्थ्यपर्यन्तं बृहद्विस्तारः
मेरठचिकित्सामहाविद्यालये चिकित्सा-सुविधानां परिसरस्य आधारभूत-संरचनायाश्च सम्बन्धिताः अनेकाः परियोजनाः प्रस्ताविताः सन्ति। एतासु वर्तमानस्य द्वितीयस्तरीयस्य आघात-चिकित्साकेन्द्रस्य १००-शय्यात्मकं प्रथम-स्तरीयम् आघातचिकित्साकेन्द्ररूपेण विकासाय प्रायः ४८.१५ कोटिरूप्यकाणि तथा बालरोगविभागे एमसीएच-केन्द्रस्य निर्माणाय प्रायः ३४.८२ कोटिरूप्यकाणि व्ययितुं प्रस्तावितानि सन्ति। तदतिरिक्तं मलजलनिकासव्यवस्था, महिलानां पुरुषाणां च स्नातकोत्तरछात्रावासाः, जला-पूर्तिव्यवस्था, १० एमएलडी-क्षमतायुक्तं मलजलशोधनसंयन्त्रम्, विद्युद्सम्बद्धाः आधारभूतसुविधाश्च सुदृढाः करिष्यन्ते।
चिकित्साशिक्षायाः छात्रस्थानानि वर्धितानि, छात्रावासाः शैक्षणिकसुविधाश्च अपि वर्धिष्यन्ते
राज्यसर्वकारस्य प्रवक्तुः अनुसारं झाँसीचिकित्सामहाविद्यालये एमबीबीएस-स्नातकछात्रस्थानानां वृद्धिं दृष्ट्वा बहुमञ्जिलीयभवने व्याख्यानकक्षः, वातानुकूलितं पुस्तकालयम्, सम्मेलन-कक्षः, भोजनकक्षः, परीक्षाकक्षश्च निर्मातुं प्रायः २८.४४ कोटिरूप्यकाणि व्ययितुं प्रस्तावितानि सन्ति। अनेन सह २७२-शय्यात्मकस्य स्नातकछात्राणीनां छात्रावासस्य निर्माणाय प्रायः २६.८९ कोटिरूप्यकाणां परियोजना प्रस्ताविता अस्ति। एटानगरे छात्राणां छात्राणीनां च छात्रावासानां परिसरस्य अन्यासां च आधारभूतसुविधानां निर्माणस्य सज्जता क्रियते। कुशीनगरे १००-शय्यात्मकः छात्रावासः, १००-शय्यात्मकः छात्र-छात्रावासः, मलजलशोधनसंयन्त्रं च प्रस्तावितानि सन्ति। अयोध्याचिकित्सा-महाविद्यालये १००-शय्यात्मकः प्रशि-क्षणार्थिछात्रावासः, १००-शय्यात्मकः छात्रावासः, १००-शय्यात्मकः स्नातक-छात्राणां छात्रावासः इत्यादीनां निर्माणानि प्रस्तावितानि सन्ति।
रोगिचिकित्सातः चिकित्साशिक्षार्थि-सुविधापर्यन्तम्
परियोजनानां विस्तारः चिकित्सामहा-विद्यालयानां कक्षाभ्यः चिकित्सालयेभ्यश्च बहुदूरं यावत् अस्ति। जौनपुरस्य स्वशासी राज्यचिकित्सा-महाविद्यालये चिकित्सकानाम् आवासाः, प्रकार-१, प्रकार-२, प्रकार-४ आवासाः, २००-क्षमतायुक्तौ द्वौ व्याख्यानकक्षौ, प्रशिक्षणार्तिपुरुषछात्रावासः, अध्यापकानां वाहनस्थलम्, अग्निशमनव्यवस्था, अतिथिगृहम्, परिसरस्य अन्याः सुविधाश्च सम्बन्धितानि अनेकानि कार्याणि प्रस्तावितानि सन्ति। मिर्जापुरस्य माँ विन्ध्यवासिनी स्वशासी राज्यचिकित्सा-महाविद्यालये चिकित्साशास्त्रस्य स्नातक-च्छात्राणां कृते १६०-क्षमतायुक्तः, छात्राणां कृते १४०-क्षमतायुक्तः छात्रावासश्च, चतसृषु व्याख्यानकक्षेषु ध्वनिरोधकनिर्माणकार्यं च प्रस्तावितम् अस्ति। बस्तीस्थे ओपेक-चिकित्सालये कैली इत्यत्र चिकित्सा-सम्बद्धखण्डस्य निर्माणं प्रस्तावितम् अस्ति। लोकार्पणसूच्यां च अस्यैव चिकित्सालय-परिसरे अतिथिगृहम्, वित्तकोषः, वाणिज्यपरिसरः, शवगृहं च इत्यादीनां नूतनभवनानां निर्माणानि सम्मिलितानि सन्ति। शाहजहाँपुरे आपत्कालीनविभागस्य जीर्णोद्धार-निर्माणकार्यैः सह परिचारिका-महाविद्यालयस्य स्थापनासम्बद्धाः परि-योजनाः अपि सम्मिलिताः सन्ति।
वृक्क, यकृत्, अस्थिमज्जाप्रत्यारोपणस्य दिशायामपि पदक्षेपः
अतिविशेषज्ञस्वास्थ्यसेवानां दृष्ट्या डॉ. राममनोहरलोहिया-आयुर्विज्ञान-संस्थानस्य परियोजना विशेषरूपेण महत्त्वपूर्णा अस्ति। संस्थानस्य मुख्यचिकित्सा-भवनस्य षष्ठ्यां सप्तम्यां च भूमौ वृक्क-यकृत्-अस्थिमज्जा-प्रत्या-रोपण-एककस्य स्थापनायाः परियोजना लोकार्पणसूच्यां सम्मिलिता अस्ति। अस्याः परियोजनायाः व्ययः प्रायः १८.२२ कोटिरूप्यकाणि अस्ति। अस्यैव संस्थानस्य २००-शय्यात्मकस्य राम-प्रकाशगुप्त-स्मृतिमातृ-शिशुचिकित्सा-लयस्य विकिरणचिकित्साखण्डस्य समीपे १०० रोगिणां कृते प्रतीक्षाकक्षः अपि सज्जासु परियोजनासु सम्मिलितः अस्ति।
Hindusthan Samachar / Divya Ranjan