वाराणसी - राणीसतीमन्दिरे ‘भादीमावसोत्सवः’ सम्पन्नः, विशेषशृङ्गारदृश्यं दृष्ट्वा श्रद्धालवः प्रफुल्लिताः
— त्रयोदश दम्पती परम्परागतवेशभूषायां पदयात्रां कुर्वन्तः मङ्गलकलशं ध्वजं च गृहीत्वा मन्दिरं प्राप्तवन्तः, सामूहिकमङ्गलपाठश्च सम्पन्नः वाराणसी, ११ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे रामकटोरा-स्थिते श्रीराणीसतीदादीमन्दिरे प्रतिवर्षम
वाराणसी: राणीसती मंदिर में 'भादीमावस उत्सव' में सजा माता रानी का विग्रह


— त्रयोदश दम्पती परम्परागतवेशभूषायां पदयात्रां कुर्वन्तः मङ्गलकलशं ध्वजं च गृहीत्वा मन्दिरं प्राप्तवन्तः, सामूहिकमङ्गलपाठश्च सम्पन्नः

वाराणसी, ११ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे रामकटोरा-स्थिते श्रीराणीसतीदादीमन्दिरे प्रतिवर्षमिव भाद्रपदमासस्य अमावस्यायां शुक्रवासरे पूर्णश्रद्धया हर्षोल्लासेन च ‘भादी-मावसोत्सवः’ आयोजितः। उत्सवस्य प्रसङ्गे प्रातः अष्टवादने त्रयोदश दम्पती परम्परागतवेषभूषां धृत्वा पदयात्रां कुर्वन्तः मङ्गलकलशं ध्वजं च गृहीत्वा राणीसतीमन्दिरं प्राप्तवन्तः। मङ्गलकलशं ध्वजं च धारयद्भिः दम्पतीभिः मन्दिर-समितेः अध्यक्षः रमेशचौधरी, दीपकबजाजः आनन्दाग्रवालश्च पुष्पवर्षया स्वागतं कृतवन्तः। भादीमावसोत्सवस्य अवसरे मन्दिरम् आगतेषु श्रद्धालुषु युवदम्पतीनां सहभागिता अधिका आसीत्।

राणीसतीमन्दिरे विवाहितजनैः युगलरूपेण पूजनार्चनस्य परम्परा अस्ति। प्रातः पञ्चवादने मङ्गलारत्याः सहैव दम्पतीभिः राणीसतीदादी इत्यस्या: पूजनार्चनम् आरब्धम्। श्रद्धालूनां कृते पङ्क्तिबद्धरूपेण दर्शनपूजनस्य व्यवस्था कृता। गोपालतुलस्यान्, मनोजाग्रवालः अशोक-गिनोडियाश्च एतां व्यवस्थां सम्भालितवन्तः। पूजनार्चनानन्तरं सञ्जयझुनझुनवालः श्रद्धालुभ्यः मधुरबुन्दिया मेवानां च पुटकं वितरितवान्। ततः मन्दिरे अपराह्णे द्विवादनतः त्रिवादनपर्यन्तं शताधिकाभिः महिलाभिः सामूहिकमङ्गलपाठः कृतः। अनन्तरं राजस्थानीगायिकाद्वयम् मितू-गड्डायनं कञ्चनपाण्डेयश्च राणीसत्याः जन्मनः प्रेरणादायिनीं यात्रां जीवन्ती-कुर्वत्यौ मङ्गलपाठस्य माध्यमेन एकस्याः महिलायाः अखण्डभावनां प्रेम दृढसङ्कल्पं शाश्वतशक्तिं भक्तिं च प्रस्तुतवत्यौ। मितूगड्डायनेन कञ्चनपाण्डेयेन च सङ्गीतमयवातावरणे भजनानां माध्यमेन दादी इत्यस्या: महिमानं श्रावयित्वा श्रोतॄन् भावविभोरान् कृतवन्तौ। श्रीराणीसती-दादीरूपेण पूज्यमानायाः नारायणीदेव्याः महाभारतस्य अभिमन्योः पत्नी उत्तरा इत्यस्याः पुनर्जन्मरूपेण मान्यता अस्ति।

सामूहिकमङ्गलपाठस्य व्यवस्थां निधिदेवाग्रवालः, आलोकमोदी, रविबूबना तथा महेशटेकरीवालश्च सम्भालितवन्तः। अनन्तरं सायंकालीनभजनानाम् अपि प्रस्तुति राजस्थानीगायिकाद्वयेन कृता। तदनन्तरं राणीसतीश्यामसेवान्यासस्य भजनकलाकाराणां स्वागतं सञ्जय-झुनझुनवालः, केशवजालानः, निधिदेव-अग्रवालश्च पुष्पगुच्छेन अङ्गवस्त्रेण च कृतवन्तः। मन्दिरे विशेषशृङ्गारझाङ्क्याः अनन्तरं सायंकालीनमहाआरार्तिक्या सह सवामनीप्रसादस्य वितरणमपि अभवत्।

कार्यक्रमस्य आयोजकैः उक्तं यत् रामकटोरास्थिते प्राचीनराणीसतीमन्दिरे १९५५ तमवर्षात् प्रतिवर्षं भाद्रपदमासस्य अमावस्यायां ‘भादीमावसोत्सवः’ आयोज्यते।

Hindusthan Samachar / Divya Ranjan