Enter your Email Address to subscribe to our newsletters

स्वामिकैलाशानन्दगिरिणा सह महात्मनां जीवनाधारितचलचित्रनिर्माणविषये चर्चा कृता
हरिद्वारम् ११ सितम्बरमासः हि.स.। बाबानीमकरौरीणः जीवनमाधारीकृत्य निर्मितस्य हिन्दीचलचित्रस्य हनुमदंशस्य साफल्यानन्तरं चलचित्रनिर्मात्री अनुप्रिया अधुना सन्तमहापुरुषाणां जीवनं तेषां च आध्यात्मिकसन्देशं चलच्चित्रमाध्यमेन नूतनपीढ्यै प्रापयितुं सिद्धतां कुर्वती अस्ति। अस्यैव क्रियाकलापस्य क्रमे सा शुक्रवासरे हरिद्वारं प्राप्तवती तथा श्रीदक्षिणकालीमन्दिरे पूजामर्चनां कृत्वा निरञ्जनीपीठाधीश्वराचार्यमहामण्डलेश्वरस्वामिकैलाशानन्दगिरिणा सह मिलित्वा आशीर्वादं प्राप्तवती।
अनुप्रियया स्वामिकैलाशानन्दगिरिणा सह सन्तमहापुरुषाणां जीवनमाधारीकृत्य चलचित्रनिर्माणस्य सम्भावनानां विषये चर्चा कृता। सा उक्तवती यत् हनुमदंशस्य निर्माणकाले अनेकविधाः आव्हानाः सम्मुखीभूताः आसन्। चलचित्रे कस्यापि बृहत्प्रसिद्धनाम्नः अथवा चर्चितकलाकारस्य अभावात् सीमितव्ययेन च निर्मितत्वात् आरम्भे तस्य साफल्यविषये आशङ्काः प्रकटिताः आसन्। तथापि दर्शकानां समर्थनं प्राप्तं तथा चलचित्रं निरन्तरं स्वकीयां परिचितिं निर्माति।
सा उक्तवती यत् विशेषतः युववर्गे जनरेशनजी इति वर्गे च चलचित्रस्य प्राप्ता प्रतिक्रिया उत्साहवर्धिका अस्ति। बाबानीमकरौरीणः जीवनसम्बद्धाः प्रसङ्गाः सरलसहजरीत्या प्रस्तुतुं प्रयासः कृतः येन दर्शकाः तेन सह सम्बद्धाः भवितुं शक्नुयुः। अनुप्रियायाः मतानुसारं चलचित्रस्य साफल्येन सा सन्तमहापुरुषाणां जीवनं तेषां विचारांश्च आधारीकृत्य अग्रे कार्यं कर्तुं प्रेरिता अस्ति।
सा उक्तवती यत् स्वामिकैलाशानन्दगिरिणा सह मिलनसमये सन्तानां जीवनं तेषां साधनां समाजाय प्रदत्तान् सन्देशांश्च चलचित्रमाध्यमेन प्रस्तुतुं विषये महत्त्वपूर्णा चर्चा अभवत्। अस्मिन् दिशि शीघ्रमेव नूतनस्य परियोजनायाः कार्यारम्भस्य योजना अस्ति।
स्वामिकैलाशानन्दगिरिः अनुप्रियायै आशीर्वादं दत्त्वा उक्तवान् यत् हनुमदंशे बाबानीमकरौरीणः जीवनसम्बद्धाः प्रसङ्गाः यया सहजतया सरलतया च प्रस्तुताः सन्ति तत् प्रशंसनीयम् अस्ति। तेन उक्तं यत् चलचित्रे भक्तेः श्रद्धायाश्च सन्देशं सामान्यदर्शकेभ्यः प्रापयितुं प्रयासः कृतः अस्ति। सः उक्तवान् यत् सन्तमहापुरुषाणां जीवनं समाजाय प्रेरणायाः स्रोतः अभवत्। तेषां विचारान् जीवनप्रसङ्गांश्च आधुनिकमाध्यमैः युवपीढ्यै प्रापयितुं प्रयत्नः सकारात्मकः उपक्रमः अस्ति। सः अनुप्रियायाः प्रयासान् प्रशंस्य भविष्यस्य कार्याणां कृते शुभकामनाः प्रदत्तवान्।
Hindusthan Samachar / Dheeraj Maithani