Enter your Email Address to subscribe to our newsletters

कोलकाता, ११ सेप्टेम्बरमास: (हि.स.)। मुख्यमन्त्री शुभेन्दु-अधिकारी शुक्रवासरे भूदान-आन्दोलनस्य प्रणेता, मानवाधि-काराणाम् अहिंसायाश्च समर्थकः तथा भारतरत्नेन सम्मानितः आचार्यः विनोबा भावे इत्यस्य जन्मजयन्त्यां तस्मै विनम्रां श्रद्धाञ्जलिम् अर्पितवान्। सः सामाजिक-माध्यमे सन्देशं प्रसार्य विनोबा भावे-महोदयस्य योगदानस्य आदर्शानां च स्मरणं कृतवान्।
शुभेन्दु-अधिकारी अवदत् यत् विनोबा भावे-महोदयस्य विचाराः अद्यापि शान्तेः, समानतायाः, अहिंसायाः मानवीयमूल्यानां च दिशि समाजं प्रेरयन्ति।
विनोबा भावे-महोदयस्य जन्म ११ सेप्टेम्बरमासे १८९५ तमे वर्षे महाराष्ट्रस्य कोंकणक्षेत्रे गागोड़े-ग्रामे अभवत्। बाल्यकालादेव आध्यात्मिकचिन्तने समाजसेवायां च तस्य विशेषः अनुरागः आसीत्। १९१६ तमे वर्षे सः महात्मागान्धिना सह सम्पर्के आगतः। तस्य विचारैः प्रभावितः सन् सः स्वातन्त्र्य-आन्दोलने रचनात्मक-कार्येषु च संलग्नः अभवत्। गान्धिमहोदय: तस्मै ‘विनोबा’ इति नाम दत्तवान्।
१९५१ तमे वर्षे तेलङ्गानाराज्यस्य पोचमपल्लीस्थाने सः भूदान-आन्दोलनस्य आरम्भं कृतवान्। भूमिहीनजनानां कृते भूमिदानस्य आह्वानं तेन कृतम्। ततः परं सः प्रायः ६५ सहस्रकिलोमीटर-पर्यन्तं पदयात्रां कृत्वा देशस्य विभिन्नेषु भागेषु भूदानस्य ग्रामदानस्य च सन्देशं प्रसारितवान्। तस्य प्रयासैः लक्षशः एकर-परिमितभूमिः दानरूपेण प्राप्ता।
विनोबा भावे-महोदयेन भगवद्गीता-सहितानाम् अनेकेषां महत्त्वपूर्णग्रन्थानां रचना अनुवादश्च कृतः। सः स्वयम् आत्मानं मूलतः शिक्षकं मन्यते स्म। १५ नवम्बरमासे १९८२ तमे वर्षे पवनार-आश्रमे तस्य निधनम् अभवत्।
Hindusthan Samachar / Divya Ranjan