महिलासम्बद्धानाम् अन्तर्जाल-सूचनाव्यवस्थां सुदृढं करोतु महिलायोगः - रेखागुप्ता
नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता शुक्रवासरे राज्य-महिलायोगस्य सभायां उक्तवती यत् आयोगेन महिलासम्बद्धानाम् अन्तर्जाल-सूचनाव्यवस्थां सुदृढां कृत्वा महिलानां बालिकानां च हितसम्बद्धेषु विषयेषु धरातले सक्रियता वर्धनीया।
मुख्यमंत्री जनसेवा सदन में  शुक्रवार को  महिला आयोग की  बैठक लेती मुख्यमंत्री रेखा गुप्ता


मुख्यमंत्री जनसेवा सदन में  शुक्रवार को आयोजित  महिला आयोग की  बैठक मुख्यमंत्री रेखा गुप्ता आयोग की  अध्यक्ष लता गुप्ता


नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। दिल्लीमुख्यमन्त्री रेखागुप्ता शुक्रवासरे राज्य-महिलायोगस्य सभायां उक्तवती यत् आयोगेन महिलासम्बद्धानाम् अन्तर्जाल-सूचनाव्यवस्थां सुदृढां कृत्वा महिलानां बालिकानां च हितसम्बद्धेषु विषयेषु धरातले सक्रियता वर्धनीया। तया पॉक्सो तथा साइबर-अपराधानां विषये बालिकाः जागरूकाः कर्तुं, पात्रकिशोरीभ्यः एचपीवी-टीकाकरणस्य लाभं प्रापयितुं तथा महिलानां सूचनानाम् अन्तर्जाल-निस्तारणव्यवस्थां अधिकं सरलां प्रभावीञ्च कर्तुं बलं दत्तम्।

मुख्यमन्त्री-जनसेवासदने आयोजितायां सभायां आयोगस्य अध्यक्षा लतागुप्ता, सदस्याः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्। मुख्यमन्त्री उक्तवती यत् महाविद्यालयेषु अध्ययनं कुर्वतीनां छात्राणां साइबर-अपराधेभ्यः सुरक्षायै विशेषरूपेण जागरूकता करणीया। तया आयोगं प्रति परामर्शः दत्तः यत् महाविद्यालयेषु अभियानं सञ्चाल्य छात्राभ्यः अन्तर्जाल-उत्पीडनात्, सामाजिक-माध्यमानां दुरुपयोगात्, साइबर-लुंठनेभ्यः अन्येभ्यः च डिजिटल-अपराधेभ्यः रक्षणस्य उपायानां विषये सूचना प्रदीयेत तथा घटनायाः सति कुत्र कथं च सूचना पञ्जीकर्तव्या, इत्यस्यापि सूचना दीयेत।

मुख्यमन्त्री उक्तवती यत् बालिकाभिः स्वकीयाधिकाराणां तथा यौनापराधेभ्यः सुरक्षायै उपलब्धानां नैयायिकप्रावधानानां च ज्ञानं भवितुम् अत्यावश्यकम् अस्ति। तया आयोगं प्रति पॉक्सो-अधिनियमस्य विषये जागरूकतां वर्धयितुं विद्यालयेषु महाविद्यालयेषु च अभियानं सञ्चालयितुं तथा शोषणस्य उत्पीडनस्य वा स्थितौ बालिकाभ्यः उपलब्धायाः सहायतायाः सूचनाव्यवस्थायाश्च विषये सूचनां प्रदातुं निर्देशः दत्तः। तया गर्भाशयग्रीवाकर्कटात् रक्षणाय एचपीवी-टीकाकरणस्य विषये अपि जागरूकतां वर्धयितुं बलं दत्तम्।

मुख्यमन्त्री उक्तवती यत् समाजस्य वञ्चितानाम् आवश्यकताग्रस्तानां च वर्गाणां पात्रकिशोरीभ्यः निःशुल्क-एचपीवी-टीकाकरणस्य सूचनां सुविधां च प्रापयितुं प्राथमिकता भवेत्। आयोगेन अस्मिन् दिशि जागरूकताकार्यक्रमान् वर्धयित्वा आवश्यकताग्रस्तपरिवाराणां यावत् सम्यक् सूचनान प्रापयितुं सम्बन्धितविभागैः सह समन्वयः करणीयः इति तया परामर्शः दत्तः।

मुख्यमन्त्रिणा महिलायोगस्य अन्तर्जाल-सूचनाव्यवस्थां अधिकं सुदृढां कर्तुम् अपि बलं दत्तम्। तया उक्तं यत् गृज़हिंसा, मानवतस्करी, यौनशोषणम्, उत्पीडनम् इत्यादीनां सूचनानां कृते महिलाभ्यः सरलः, सुलभः, विश्वसनीयश्च व्यवस्था उपलब्धा भवेत्। अन्तर्जाल-सूचनाप्रणाली तादृशी भवेत् यत्र महिला सुगमतया स्वकीयां सूचनां पञ्जीकर्तुं शक्नुयात् तथा तस्याः निस्तारणप्रक्रियायाः विवरणमपि निरन्तरं प्राप्नुयात्। आयोगस्य कार्यप्रणालीं महिलानां वास्तविकाव-श्यकतानुसारम् अधिकं प्रभावी कर्तुं तथा शिकायतानां निस्तारणे संवेदनशीलतां तत्परतां च सुनिश्चितं कर्तुं तया परामर्शः दत्तः।

मुख्यमन्त्रिणा सङ्कटस्थितौ महिलाभ्यः सहाय्यं प्रदातॄणां वन-स्टॉप्-सेण्टराणां (सखी) तथा सर्वकारेण गैर-सर्वकारीयसंस्थाभिश्च सञ्चालितानां महिलाश्रय-देखभालसंस्थानां च भ्रमणं कृत्वा तत्रत्यव्यवस्थानां समीक्षां कर्तुम् अपि बलं दत्तम्। तया उक्तं यत् एतेषु संस्थानेषु निवसन्तीनां महिलानां कृते सुरक्षितवातावरणेन सह आवश्यक-चिकित्सा, परामर्शः, नैयायिकसहायता, पुनर्वाससम्बद्धाः सुविधाश्च प्रभावीरूपेण उपलब्धाः भवेयुः। महिलानां समस्यासु समाधानं केवलं सूचनाप्राप्तेः अनन्तरं कार्यवाहीपर्यन्तं सीमितं न भवेत्, अपितु जागरूकता, निवारणम्, सहायता, सूचनानिवारणम् इत्येतेषु प्रत्येकस्मिन् स्तरे आयोगस्य सक्रियभूमिका दृश्येत।

/ अंशु गुप्ता