सर्वाइकल-कर्करोगस्य निवारणे देशस्य महती उपलब्धिः, ८० लक्षाधिकाः एचपीवी-टीकायाः मात्रा प्रदत्ता
नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। सर्वाइकल-कर्करोगस्य निवारणस्य दिशि महतीम् उपलब्धिं प्राप्य राष्ट्रिय-एचपीवी-टीकाकरणाभियानस्य अन्तर्गतं देशे अद्यावधि ८० लक्षाधिकाः एचपीवी-टीकायाः मात्राः प्रदत्ताः सन्ति। एतदभियानं फेब्रुवरी-मासे २०२६ तमे वर्षे
एच पी वी  वैक्सीन की उपलब्धि का पोस्टर


नवदिल्ली, ११ सेप्टेम्बरमासः (हि.स.)। सर्वाइकल-कर्करोगस्य निवारणस्य दिशि महतीम् उपलब्धिं प्राप्य राष्ट्रिय-एचपीवी-टीकाकरणाभियानस्य अन्तर्गतं देशे अद्यावधि ८० लक्षाधिकाः एचपीवी-टीकायाः मात्राः प्रदत्ताः सन्ति। एतदभियानं फेब्रुवरी-मासे २०२६ तमे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रारब्धम् आसीत्। अभियानस्य अन्तर्गतं १४-वर्षीयाभ्यः किशोरीभ्यः अभिभावकानां सम्मतिं प्राप्य सर्वकारीयस्वास्थ्यकेन्द्रेषु स्वैच्छिकरूपेण निःशुल्का एकमात्रा एचपीवी-टीका प्रदीयते।

भारतीय-रजिस्ट्रार-महापञ्जीकारस्य २०२१ तमस्य वर्षस्य अनुमानानुसारं देशे प्रतिवर्षं प्रायः १.२ कोटिकन्यकाः १४ वर्षस्य आयुं प्राप्नुवन्ति। एतेभ्यः अस्य प्रयत्नस्य लाभं प्राप्तुं शक्यते इति अपेक्षा अस्ति।

स्वास्थ्य-मन्त्रालयेन शुक्रवासरे निर्गते वक्तव्ये उक्तं यत् चतुर्षु राज्येषु शतप्रतिशतं आच्छादनं प्राप्तम् अस्ति। एतेषु गुजरातम्, उत्तरप्रदेशः, मध्यप्रदेशः मिजोरमश्च सन्ति, यत्र निर्धारितस्य लक्षितसमूहस्य शतप्रतिशतं टीकाकरणम् अभवत्। बिहारम्, आन्ध्रप्रदेशः असमश्च नवतिप्रतिशताधिकं आच्छादनं प्राप्तवन्तः। कर्णाटके पञ्चाशीतिप्रतिशताधिकं, छत्तीसगढे, सिक्किमे, केरले, तेलङ्गाने, ओडिशायां च षष्टिप्रतिशताधिकं टीकाकरणम् अभवत्। राज्येषु उत्तरप्रदेशः अग्रणी अस्ति, यत्र अभियानस्य अन्तर्गतं २२ लक्षाधिकाभ्यः किशोरीभ्यः एचपीवी-टीका प्रदत्ता अस्ति।

मन्त्रालयस्य अनुसारम् अभियानस्य समये अभिभावकानां, शिक्षकाणां, स्वास्थ्यकर्मिणां, चिकित्साविशेषज्ञानां च सहभागितया एचपीवी-टीकाकरणसम्बद्धानां भ्रान्तिनां मिथ्यासूचनानां च निराकरणे विशेषं बलं दीयते। एम्स्-सदृशसंस्थानानां विशेषज्ञैः सह बालरोगविशेषज्ञाः, स्त्रीरोगविशेषज्ञाः, आशा-कार्यकर्तारः, एएनएम-कार्यकर्तारश्च जागरूकताभियाने सहयोगं कुर्वन्ति।

टीकाकरणस्य निरीक्षणाय ‘यू-विन’ इति अङ्कीयमञ्चस्य उपयोगः क्रियते। तस्य माध्यमेन जनपदस्तरे आच्छादनस्य, टीकाकरणात् वञ्चितानां लाभार्थिनां, टीकाकरणसम्बद्धानां न्यूनतानां च परिचयं क्रियते।

सर्वकारीयस्वास्थ्यकेन्द्रेषु सर्वाणि टीकाकरणसत्राणि प्रशिक्षितचिकित्साधि-कारिणां पर्यवेक्षणे आयोजितानि भवन्ति। दुर्लभप्रतिकूल-प्रभावानां, अर्थात् टीका-करणानन्तरं जायमानानाम् प्रतिकूल-घटनानां, प्रबन्धनाय सर्वकारीय-स्वास्थ्यसुविधाः चतुर्विंशतिः होराः, सप्ताहस्य सप्तसु दिनेषु च स्वास्थ्यसेवाभिः सह सम्बद्धाः कृताः सन्ति।

स्वास्थ्य-मन्त्रालयस्य अनुसारम् अभि-यानम् अधुना अन्तिमचरणस्य दिशि अग्रे गच्छति तथा शेषपात्रकिशोरीभ्यः यावत् सेवां प्रापयितुं ध्यानं केन्द्रितं क्रियते। काचिदपि योग्या कन्या एचपीवी-टीकाकरणात् वञ्चिता न भवेत् इति सर्वकारस्य लक्ष्यम् अस्ति।

Hindusthan Samachar / Divya Ranjan