राष्ट्रियस्तरे उत्तमप्रदर्शनोत्तरम् अंताराष्ट्रियायै प्रतियोगितायै चयनम्
हरिद्वारम्, 11 सितंबरमासः (हि.स.)। रोशनाबादस्थिते पुलिस-मॉडर्न-विद्यालये दशमकक्षायाः छात्रः कुलश्रेष्ठः वॉविनाम्-मल्लविद्यायाः राष्ट्रियस्तरीयायां प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा विद्यालयस्य हरिद्वार-आरक्षिविभागस्य च नाम गौरवान्वितवान्।
चयनित खिलाड़ी को शुभकामनाएं देते एसएसपी नवनीत भुल्लर


हरिद्वारम्, 11 सितंबरमासः (हि.स.)।

रोशनाबादस्थिते पुलिस-मॉडर्न-विद्यालये दशमकक्षायाः छात्रः कुलश्रेष्ठः वॉविनाम्-मल्लविद्यायाः राष्ट्रियस्तरीयायां प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा विद्यालयस्य हरिद्वार-आरक्षिविभागस्य च नाम गौरवान्वितवान्। जम्मू-कश्मीरे आयोजितायां राष्ट्रियप्रतियोगितायां तस्य उत्कृष्टप्रदर्शनस्य आधारेण आगामी नवम्बरमासे कम्बोडियादेशे आयोज्यमानायां अन्तरराष्ट्रीयप्रतियोगितायां तस्य चयनं जातम्। अस्यां प्रतियोगितायां सः भारतस्य प्रतिनिधित्वं करिष्यति।

राष्ट्रियस्तरे प्राप्तस्य अस्य गौरवपूर्णस्य उपलब्धेः अनन्तरं ११ सितम्बर्-दिनाङ्के वरिष्ठः आरक्षी-अधीक्षकः हरिद्वारः पुलिस-मॉडर्न-विद्यालयं रोशनाबादं प्राप्तवान् तथा छात्रं कुलश्रेष्ठं हार्दिकाभिनन्दनानि शुभकामनाश्च अर्पितवान्। तेन छात्रस्य उत्साहवर्धनं कृत्वा उत्तमप्रदर्शनाय प्रोत्साहितः। आरक्षी-अधीक्षकेन कुलश्रेष्ठाय आश्वासनं दत्तं यत् अन्ताराष्ट्रियप्रतियोगितायाः सिद्धतायै तस्मै सर्वसम्भवं सहयोगं साहाय्यं च प्रदास्यते।

तेन उक्तं यत् पुलिस-मॉडर्न-विद्यालयस्य विद्यार्थिनां शिक्षया सह क्रीडाक्षेत्रे अन्येषु च क्षेत्रेषु उत्कृष्टप्रदर्शनं सम्पूर्णस्य विद्यालयस्य आरक्षिविभागस्य च कृते गौरवस्य विषयः अस्ति। प्रतिभावन्तः विद्यार्थिनः अग्रे गन्तुं प्रोत्साहयितुं आवश्यकम् अस्ति, येन ते राष्ट्रिय-अन्तरराष्ट्रीयस्तरे स्वप्रतिभां प्रदर्शयितुं शक्नुवन्ति।

छात्रः कुलश्रेष्ठः पूर्वमपि विभिन्नासु प्रतियोगितासु सफलतां प्राप्तवान् अस्ति। राष्ट्रियस्तरे उत्कृष्टप्रदर्शनस्य अनन्तरम् अधुना अन्तरराष्ट्रीयमञ्चे भारतस्य प्रतिनिधित्वस्य अवसरः प्राप्तः इत्यनेन विद्यालयेऽपि उत्साहस्य वातावरणं वर्तते।

अस्मिन् अवसरे वृत्ताधिकारी लाइन बलूनी, प्रतिसारनिरीक्षकः पुलिस-लाइन प्रवीण-आलोकः, प्रधानाचार्या ममता-तोमरः, क्रीडाप्रशिक्षकः धीरजकुमारः इत्यादयः अन्ये अधिकारीगणाः विद्यालयस्य कर्मचारिणश्च उपस्थिताः आसन्। सर्वैः छात्राय कुलश्रेष्ठाय आगामीप्रतियोगितायै हार्दिकाः शुभकामनाः प्रदत्ताः।

Hindusthan Samachar / Dheeraj Maithani