Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 सितंबरमासः (हि.स.)।
केन्द्रीयमहिलाबालविकासमन्त्रिणी अन्नपूर्णादेवी शनिवासरे फिलिप्पीन्सदेशस्य प्रथममहिलया लुईस अरानेटा-मार्कोस इत्यनया सह भोजनसमये साक्षात्कारं कृतवती। अस्मिन् अवसरे उभयोः मध्ये महिलासशक्तीकरणं विकासे च तासां नेतृत्वकारीभूमिकां प्रति चर्चा अभवत्।
अन्नपूर्णादेवी प्रधानमन्त्रिणः नरेन्द्रमोदिनः महिलानेतृत्वाधारितविकासस्य दृष्टिकोणं सहकृत्य अवदत् यत् भारतं महिलानां सशक्तीकरणाय ताः नेतृत्वकर्त्रीरूपेण अग्रे नेतुं च प्रतिबद्धम् अस्ति। सा अवदत् यत् समृद्धभविष्यस्य निर्माणे महिलानां समानभागिता आवश्यकी अस्ति।
सभायाः समये भारतस्य पक्षतः महिलाभ्यः समानावसरान् प्रदातुं ताः विकासप्रक्रियायां महत्त्वपूर्णभागिनः कर्तुं च प्रतिबद्धतायाः अपि बलं दत्तम्।
----------------------
Hindusthan Samachar / Dheeraj Maithani