Enter your Email Address to subscribe to our newsletters

जयपुरम्, 12 सितंबरमासः (हि.स.)।
विद्युत्-द्विचक्रिकानिर्माता एथर-एनर्जी इति कम्पन्या शनिवासरे जयपुरे स्वस्य नूतनं विद्युत्-द्विचक्रिकायानं कोणार्कम् उपस्थापितम्। कम्पन्याः नूतने ईएल-मञ्चे निर्मितं कोणार्कं दैनन्दिन-यात्रा, आरामः, दीर्घा-परिधिः, दृढता, न्यून-रक्षणं च ध्यायित्वा विकसितम् अस्ति। द्विचक्रिकायानं एस्-जेड्-श्रेण्योः षड्भेदेषु उपलब्धं भविष्यति तथा च अस्य अधिकतमा २०० किलोमीटरपर्यन्तम् आईडीसी-परिधिः अस्ति। जयपुरे अस्य विशेषारम्भिकं मूल्यं ९९,९९९ रूप्यकाणि (शोरूम्-बहिः) निर्धारितम् अस्ति। चयनितभेदानां प्रदायनं चरणबद्धरूपेण प्रारभ्यते।
कोणार्कस्य सेवाविरामः १० सहस्रकिलोमीटर् अस्ति। अर्थात् वाहनस्य सेवा १० सहस्रकिलोमीटर् अथवा एकवर्षानन्तरं, यत् पूर्वं भवति, तदा कार्या भविष्यति। कम्पन्याः अनुसारम् अस्मिन् न्यूनाः सेवापरीक्षण-बिन्दवः स्थापिताः सन्ति तथा च क्षीणमानाः अवयवाः सहजतया उपलब्धाः भविष्यन्ति, येन अनुरक्षणं सुकरं भविष्यति। द्विचक्रिकायानस्य सर्वेषु भेदेषु एथरस्य पञ्चमपीढीया बेडरॉक्-बैटरी प्रदत्ता अस्ति। कम्पनी बैटरी-विषये १० वर्षाणि अथवा एकलक्षं किलोमीटर्, यत् पूर्वं भवति, तावत् वारंटीम् प्रदास्यति। तदतिरिक्तं वारंटी-अवधिः पूर्णा यावत् न्यूनातिन्यूनं ७० प्रतिशतं बैटरी-स्वास्थ्यस्य गारण्टी अपि प्रदत्ता अस्ति।
कोणार्कं भारतीयमार्गान् ध्यायित्वा निर्मितम् अस्ति। अस्मिन् १४ इञ्च्-परिमाणस्य अग्रिमः मिश्रधातु-चक्रः, १२ इञ्च्-परिमाणस्य पश्चात् मिश्रधातु-चक्रं तथा च १३५२ मिलीमीटर्-परिमाणस्य चक्राधारः अस्ति। उभयोः चक्रयोः दीर्घ-प्रसरण-निलम्बन-व्यवस्थे प्रदत्ते स्तः। एषः एथरस्य प्रथमः द्विचक्रिकायानः अस्ति, यस्मिन् पश्चाद्भागे धातु-पटलं तथा च इस्पात्-एकशरीर-चेसिस् प्रदत्तम् अस्ति। क्रमिक-गियर्-चालन-संक्रमणस्य माध्यमेन सुगमा प्रायः निःशब्दा च शक्तिप्रदाय-व्यवस्था प्राप्यते।
एथर-एनर्जी इति कम्पन्याः विपणन-विभागस्य प्रमुखः सौरभः शर्मा अवदत् यत् राजस्थानं विद्युत्-गतिशीलतां अधिकाधिकेभ्यः चालकाभ्यः प्रापयितुं कम्पन्यै महत्त्वपूर्णं राज्यम् अस्ति। कोणार्कः तेषां ग्राहकाणां आवश्यकताः ध्यायित्वा निर्मितः अस्ति, ये विद्युत्-द्विचक्रिकायानं क्रेतुं प्रतीक्षन्ते। धातु-शरीरम्, २०० किलोमीटर्-पर्यन्तं परिधिः, आरामदायिनी यात्रा, द्रुतं गृह-आरोपणम्, १० सहस्रकिलोमीटर्-सेवाविरामः तथा १० वर्षाणां बैटरी-वारंटी इत्यादयः सुविधाः ग्राहकानां कृते उपयोगिन्यः सन्ति। राजस्थानस्य कोणार्कः राज्ये कम्पन्याः उपस्थितिं वर्धयितुं तथा विद्युत्-गतिशीलतायाः गतिं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
कोणार्कस्य माध्यमेन एथर राजस्थानस्य स्वकीयस्य उत्पाद-विस्तारस्य विस्तारं करोति। कम्पन्याः क्रीडाप्रधान-४५०-श्रेणी तथा पारिवारिकं स्कूटर्-रिज्टा च पूर्वमेव विपण्यां विद्यमाने स्तः। जयपुरे कोणार्कस्य प्रस्तुतीकरणं कम्पनी राज्ये स्वकीय-विक्रय, सेवा तथा चार्जिंग-जालं सुदृढीकर्तुं दिशि अपरं पदक्षेपम् इति वर्णितवती।
---------------