Enter your Email Address to subscribe to our newsletters

बलिया, 12 सितम्बरमासः (हि.स.)।
दिल्ली-नगरे आयोजिते ब्रिक्स्-संवादे २०२६ उत्तरप्रदेशस्य युवासामाजिक-राजनैतिककार्यकर्त्री पूर्वप्रधानः स्मृतिसिंहः सहभागितां कृत्वा जनपदस्य गौरवं वर्धितवती। सा शनिवासरे उत्तरप्रदेशतः अस्मिन् संवादे एकमात्रप्रतिनिधिरूपेण सम्मिलिता अभवत् तथा च ब्रिक्स्-देशेभ्यः आगतैः विदेशप्रतिनिधिभिः सह संवादं कृत्वा भारतस्य ग्रामीणभारतस्य च पक्षं प्रस्तुतुं अवसरं प्राप्तवती।
संवादस्य समये स्मृतिसिंहेन महिलासशक्तीकरणं, ग्रामीणविकासः, शिक्षा, स्वास्थ्यं, युवानेतृत्वं, स्वच्छता सामाजिकविकासश्च इत्यादिविषयेषु स्वविचाराः प्रस्तुताः। सा ग्रामीणभारते महिलानां युवानां च वर्धमानां सहभागितां तथा च आधारस्तरे जायमानान् सकारात्मकपरिवर्तनान् अन्तर्राष्ट्रीयप्रतिनिधीनां समक्षं प्रस्तुतवती।
उल्लेखनीयं यत् ग्रामपञ्चायतस्तरात् सार्वजनिकजीवनस्य प्रारम्भं कृतवती स्मृतिसिंहः महिलासशक्तीकरणस्य मासिकधर्मस्वच्छताप्रबन्धनस्य च क्षेत्रे स्वकार्यैः अपि परिचिता अस्ति। तस्यै “विलेज् पैड् गर्ल्” इति नाम्ना ख्यातिः प्राप्ता अस्ति।
स्मृतिसिंहः अवदत्— “ब्रिक्स्-संवादसदृशे अन्तर्राष्ट्रीयमञ्चे भारतस्य पक्षं प्रस्तुतुं तथा उत्तरप्रदेशस्य ग्रामीणसमाजस्य महिलानां युवानां च स्वरं वैश्विकप्रतिनिधिभ्यः यावत् प्रापयितुम् अवसरः मम कृते गौरवस्य विषयः अस्ति।”
सा अवदत् यत् ब्रिक्स्-देशानां मध्ये महिलानेतृत्वे, ग्रामीणविकासे, शिक्षायां, स्वास्थ्ये युवानां सहभागितायां च क्षेत्रेषु सहयोगः अधिकं सुदृढः करणीयः।
---------------
Hindusthan Samachar / Dheeraj Maithani