Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 सितंबरमासः (हि.स.)।राष्ट्रियशिल्पसंग्रहालये आयोजिते ‘ब्रिक्स्-विपण्ये’ भारत-ईरानयोः मध्ये सांस्कृतिकसम्बन्धस्य झलका दृश्यते। ईरानस्य राष्ट्रपतिः मसूद् पेजेश्कियान् इत्यस्य पुत्री जहरा पेजेश्कियान् स्वपतिना हसन मजीदी इत्यनेन सह ईरान्-मण्डपे आगतवती।
अस्मिन् अवसरे केन्द्रीयमहिलाबालविकासमन्त्री अन्नपूर्णादेवी जहरा पेजेश्कियान् इत्यस्याः स्वागतं कृत्वा तस्यै ब्रिक्स्-विपण्यस्य भ्रमणं कारितवती। सा ब्रिक्स्-सदस्यदेशानां साझेदारदेशानां च पक्षतः प्रदर्शितां कलां, हस्तशिल्पानि, पारम्परिकवस्तूनि सांस्कृतिकधरोहरं च समीपतः दृष्टवती। सा तत्र उपस्थितैः शिल्पिभिः प्रतिनिधिभिश्च सह संवादं कृत्वा तैः प्रदर्शितायाः कलायाः हस्तशिल्पानां च विषये जानकारीं प्राप्तवती।
दिल्लीस्थे शिल्पसंग्रहालये आयोजितायाम् अस्यां प्रदर्शिन्यां अष्टादशदेशेभ्यः चत्वारिंशदधिकाः शिल्पिनः, अभिकल्पकाः सृजनात्मकक्षेत्रसम्बद्धाश्च कम्पन्यः स्वकीयां पारम्परिककलां हस्तशिल्पानि च प्रदर्शयन्ति। एषा प्रदर्शिनी पञ्चदशसितम्बर्-पर्यन्तं प्रचलिष्यति। ब्रिक्स्-सम्मेलनस्य समये अनेकानां विदेशीय-अतिथीनां तेषां परिवारसदस्यानां च अस्याः प्रदर्शिन्याः दर्शनार्थम् आगमनस्य अपेक्षा अस्ति।
ब्रिक्स्-विपण्ये चीनस्य सुझौ-कशीदाकारी, इण्डोनेशियायाः पारम्परिकवयनम्, नाइजीरियादेशस्य काष्ठेन लौकीभिश्च निर्मितानि कलाकृतयः तथा दक्षिणाफ्रिकादेशस्य जुलू-चर्मकला इत्यादीनि विभिन्नदेशानां प्रामाणिककलाः, हस्तशिल्पानि, हस्ततन्तुवस्त्राणि, वस्त्राणि कलाकृतयश्च प्रदर्शितानि सन्ति। अत्र आगच्छन्तः विदेशीयप्रतिनिधयः शिल्पिभिः स्वकलां निर्मीयमाणां द्रष्टुम् अपि अवसरं प्राप्नुवन्ति। तदतिरिक्तं विविधाः सांस्कृतिककार्यक्रमाः आयोजिताः भवन्ति।
भारतस्य पक्षतः अपि चत्वारः शिल्पिनः स्वकीयाः पारम्परिककलाः प्रदर्शयन्ति। तेषु रियाज अहमदः काश्मीरी-पेपर्-मेश्-कला, मोहम्मद् बिलाल् खत्री ब्लॉक्-मुद्रणकला, करणसिंहः टेराकोटा-कला तथा शादाब अहमदः लाखाचूडीनिर्माणकलां प्रस्तुतयन्ति।
ब्रिक्स्-सदस्यदेशानां साझेदारदेशानां च कृते स्थापितानां प्रदर्शनीस्थानानां अतिरिक्तं आतिथेयं भारतं देशस्य सांस्कृतिकवैविध्यं प्रदर्शयितुं विभिन्नराज्यानां विशेषकोणान् अपि निर्मितवान् अस्ति। प्रदर्शनीस्थले जम्मू-कश्मीरस्य कुटीरं, राजस्थानस्य प्राङ्गणम्, गुजरातस्य कुटीरं, ओडिशायाः प्राङ्गणम्, बङ्गालस्य कुटीरं तथा बिहारस्य प्राङ्गणं च निर्मितम् अस्ति।
----------
Hindusthan Samachar / Dheeraj Maithani