Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 सितंबरमासः (हि.स.)।
बेलारूसस्य विदेशमन्त्री मैक्सिम् रिजेन्कोवः अष्टादशे ब्रिक्सशिखरसम्मेलने भागं ग्रहीतुं नवदेहलीं प्राप्तवान्। तत्र आगमने भारतीयप्रतिनिधिभिः तस्य स्वागतं कृतम्।
भारतीयविदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालेन सामाजिकमाध्यममञ्चे एक्स् इत्यत्र तस्य आगमनस्य स्वागतस्य च सूचना प्रदत्ता। तेन उक्तं यत् भारत-बेलारूसयोः मध्ये सौहार्दपूर्णाः मैत्रीपूर्णाश्च सम्बन्धाः सन्ति। उभयोः देशयोः मध्ये द्विपक्षीयबहुपक्षीययोः स्तरयोः विविधक्षेत्रेषु सहयोगः निरन्तरं वर्धते।
तेन उक्तं यत् ब्रिक्सशिखरसम्मेलनम् उभयोः देशयोः परस्परसहयोगं साझेदारीं च अग्रे वर्धयितुं अवसरं प्रदास्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani