Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 सितंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी अष्टादशस्य ब्रिक्सशिखरसम्मेलनस्य अवसरे मलेशियादेशस्य प्रधानमन्त्री दातो सेरी अन्वर बिन् इब्राहिम इत्यनेन सह द्विपक्षीयां बैठकां कृतवान्। उभौ नेतारौ अस्मिन् वर्षे फेब्रुवरीमासे प्रधानमन्त्री मोदी इत्यस्य मलेशियायात्रायाः अनन्तरं द्विपक्षीयसम्बन्धेषु अभवत् प्रगतिं समीक्षितवन्तौ तथा विभिन्नक्षेत्रेषु सहयोगं वर्धयितुं चर्चां कृतवन्तौ।
प्रधानमन्त्री मोदी भारतागमने प्रधानमन्त्री इब्राहिमस्य स्वागतं कृतवान् तथा ब्रिक्सशिखरसम्मेलने सहभागिदेशरूपेण मलेशियायाः सहभागितायाः प्रशंसां कृतवान्।
भारत-मलेशिययोः प्रधानमन्त्रीकार्यालयाभ्यां संयुक्तरूपेण प्रकाशिते वक्तव्ये उक्तं यत् उभौ नेतारौ व्यापारस्य निवेशस्य च, रक्षायाः सुरक्षायाश्च, अर्धचालकानां, आधारभूतसंरचनायाः, अङ्कीय-अर्थव्यवस्थायाः, ऊर्जायाः, वित्तीयप्रौद्योगिक्याः, शिक्षायाः, पर्यटनस्य तथा जनानां परस्परसंपर्कस्य च क्षेत्रेषु सहयोगस्य प्रगतेः समीक्षा कृतवन्तौ।
गोष्ठ्यां प्रधानमन्त्री इब्राहिमेन सबाहप्रान्तस्य कोटा किनाबालुनगरे भारतस्य महावाणिज्यदूतावासस्य स्थापनायै मलेशियादेशस्य सहमतिविषये सूचितम्।
प्रधानमन्त्रिणा मोदिना भारत-आसियान-सम्बन्धानां सुदृढीकरणे मलेशियादेशस्य निरन्तरसहयोगस्य प्रशंसा कृता। उभौ नेतारौ क्षेत्रीयवैश्विकमहत्त्वस्य विविधविषयेष्वपि विचाराणाम् आदानप्रदानं कृतवन्तौ।
उभयोः पक्षयोः भारत-मलेशिययोः व्यापक-सामरिक-सहकारित्वम् अधिकं सुदृढां कर्तुं स्वप्रतिबद्धतां पुनरुक्ता।
---------------
Hindusthan Samachar / Dheeraj Maithani