प्रधानमन्त्रिणा मोदिना वियतनामस्य प्रधानमन्त्रिणा सह द्विपक्षीयवार्ता कृता
नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अष्टादशतमस्य ब्रिक्स-शिखरसम्मेलनस्य अवसरे वियतनामस्य प्रधानमन्त्री ले मिन्ह हुंगेन सह द्विपक्षीयसभां कृतवान्। उभौ नेतारौ भारत-वियतनामयोः सम्बन्धानां तथा विभिन्नानां क्षेत्रीयाणां वैश्व
नई दिल्ली : 18वें ब्रिक्स शिखर सम्मेलन के इतर वियतनाम के प्रधानमंत्री ले मिन्ह हुंग के साथ द्विपक्षीय बैठक करते प्रधानमंत्री नरेन्द्र मोदी।


नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अष्टादशतमस्य ब्रिक्स-शिखरसम्मेलनस्य अवसरे वियतनामस्य प्रधानमन्त्री ले मिन्ह हुंगेन सह द्विपक्षीयसभां कृतवान्। उभौ नेतारौ भारत-वियतनामयोः सम्बन्धानां तथा विभिन्नानां क्षेत्रीयाणां वैश्विकानां च विषयाणां विषये चर्चां कृतवन्तौ।

विदेशमन्त्रालयस्य अनुसारं प्रधानमन्त्रिणा मोदिना ब्रिक्स-शिखरसम्मेलने सहभागी-देशरूपेण वियतनामस्य सहभागितायाः स्वागतं कृतम्। उभौ नेतारौ अस्यैव वर्षस्य मे-मासे वियतनामस्य कम्युनिस्टपक्षस्य महासचिवेन राष्ट्रपतिना च टो लामेन भारतयात्रायां कृते भारत-वियतनामयोः सम्बन्धानां ‘उन्नत-व्यापक-रणनीतिक-साझेदारी’ इति दर्जा प्रदत्तस्य अनन्तरं प्राप्तस्य प्रगतेः समीक्षां कृतवन्तौ। उभे पक्षे क्षेत्रीयवैश्विक-महत्त्वयुक्तेषु विभिन्नेषु विषयेषु विचाराणाम् आदान-प्रदानं कृत्वा साझेदारीं अधिकं सुदृढां कर्तुं स्वप्रतिबद्धतां पुनः प्रकटितवन्तौ।

भारत-वियतनामयोः मध्ये दीर्घकालात् मैत्रीपूर्णाः सम्बन्धाः सन्ति, येषां आधारः सहभाग: सांस्कृतिक-धरोहरः, परस्पर-विश्वासः, अवबोधश्च अस्ति। वियतनामः भारतस्य ‘एक्ट ईस्ट’ नीत्याः महत्त्वपूर्णः स्तम्भः तथा दक्षिण-पूर्व-एशियायां भारतस्य प्रमुखः सहभागी अस्ति।

Hindusthan Samachar / Divya Ranjan