शीर्षकम् - ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं नवदिल्ली इत्यत्र प्राप्तः वियतनामस्य प्रधानमन्त्री
नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। वियतनामस्य प्रधानमन्त्री ले मिन्ह हुंगः अष्टादशे ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं नवदिल्ली इत्यत्र प्राप्तवान्। विदेश-मन्त्रालयस्य प्रवक्ता रणधीरजायसवालः तस्य भारतयात्रायाः विषये सूचनां दत्तवान्। रणधीरजायसवाल
18वें ब्रिक्स शिखर सम्मेलन में भाग लेने के लिए नई दिल्ली पहुंचे वियतनाम के प्रधानमंत्री ले मिन्ह हुंग का स्वागत करते केंद्रीय राज्य मंत्री मुरलीधर मोहोल।


नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। वियतनामस्य प्रधानमन्त्री ले मिन्ह हुंगः अष्टादशे ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं नवदिल्ली इत्यत्र प्राप्तवान्। विदेश-मन्त्रालयस्य प्रवक्ता रणधीरजायसवालः तस्य भारतयात्रायाः विषये सूचनां दत्तवान्।

रणधीरजायसवालेन सामाजिक-माध्यमे ‘एक्स’ इत्यत्र उक्तं यत् वियतनामस्य प्रधानमन्त्री ले मिन्ह हुंगस्य नवदिल्ली इत्यत्र प्राप्तेः अनन्तरं स्वागतं कृतम्। विमानपत्तने केन्द्रीयनागरविमानन-राज्यमन्त्री मुरलीधरमोहोलः तस्य स्वागतं कृतवान्।

तेन उक्तं यत् भारत-वियतनामयोः मध्ये उन्नता व्यापक-रणनीतिक-सहभागिता वर्तते, या दीर्घकालिकमैत्रीपूर्णसम्बन्धेषु सहकारे च आधारिताऽस्ति। उभयोः देशयोः मध्ये रक्षाक्षेत्रे, सुरक्षाक्षेत्रे, वित्तीय-प्रौद्योगिक्यां, महत्त्वपूर्णखनिजेषु तथा अन्येषु उदयमानेषु क्षेत्रेषु च सहयोगः निरन्तरं विस्तरति।

जायसवालेन उक्तं यत् भारतं वियतनामश्च बहुपक्षीयमञ्चेषु अपि निकटसहयोगेन कार्यं कुरूतः।

Hindusthan Samachar / Divya Ranjan