Enter your Email Address to subscribe to our newsletters


नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। चीनस्य राष्ट्रपतिः शी जिनपिङ्गः अष्टादशे ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं शनिवासरे नवदिल्ली इत्यत्र पालम-विमानपत्तने प्राप्तवान्। केन्द्रीय-वाणिज्योद्योग-विभागस्य तथा इलेक्ट्रॉनिक्स एवं सूचनाप्रौद्योगिकी-विभागस्य राज्यमन्त्री जितिनप्रसादः विमानपत्तने तस्य स्वागतं कृतवान्।
प्रधानमन्त्रिणः नरेन्द्रमोदिनः निमन्त्रणेन जिनपिङ्गः भारतम् आगतवान्। सः भारतस्य अध्यक्षतायाम् आयोज्यमाने द्विदिवसीये अष्टादशे ब्रिक्स-शिखर-सम्मेलने भागं ग्रहीष्यति।
शिखरसम्मेलनस्य अवधौ प्रधानमन्त्री नरेन्द्रमोदी तथा राष्ट्रपतिः जिनपिङ्गः अनयोः मध्ये द्विपक्षीयसभा अपि प्रस्ताविता अस्ति। अस्यां सभायां भारत-चीनदेशयोः सम्बन्धानां तथा परस्परहितसम्बद्धानां क्षेत्रीयानां वैश्विकानां च विषयाणां चर्चा सम्भाव्यते।
विमानपत्तनात् जिनपिङ्गः अत्यन्तकठोर-सुरक्षाव्यवस्थायाः मध्ये प्रथमं होटल, ततः ब्रिक्स-शिखरसम्मेलनस्य स्थलम् भारतमण्डपम् इति स्थलं प्रति नीयते। जिनपिङ्गः अद्य प्रातः नवदिल्लिं प्रति विमानयात्रां कृतवान्। चीनदेशीयपत्रकारै: अस्य सूचना दत्ता, किन्तु तस्य यात्रायाः चित्रं न प्रकाशितम्।
सप्तवर्षानन्तरं जिनपिङ्गः भारतम् आगतवान्। २०२० तमे वर्षे गलवान-सङ्घर्षस्य अनन्तरम् एषः तस्य प्रथमः भारतप्रवासः अस्ति।
Hindusthan Samachar / Divya Ranjan