Enter your Email Address to subscribe to our newsletters

पटोद्घाटनानन्तरं महाकालस्य जलाभिषेकः, पञ्चामृतेन पूजनम्, भस्मारत्यां च गुञ्जिताः बाबामहाकालस्य जयघोषाः
उज्जयिनी, १२ सितम्बर (हि.स.)। मध्यप्रदेशस्य उज्जयिन्यां स्थिते विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे शनिवासरे प्रातः चतुर्वादने पटोद्घाटनानन्तरं भस्मारत्याः आरम्भः अभवत्। पण्डितैः पूजारिभिश्च गर्भगृहे प्रतिष्ठितानां देवीदेवतानां पूजनं कृत्वा भगवान् महाकालस्य जलाभिषेकः कृतः। ततः दुग्धेन, दध्ना, घृतेन, शर्करया, मधुना फलरसैश्च निर्मितेन पञ्चामृतेन अभिषेकपूजनं कृतम्। प्रथमं घण्टालवादनं कृत्वा हरिओम इति जलम् अर्पितम् तथा मन्त्रपाठेन बाबामहाकालस्य ध्यानं कृतम्।
तदनन्तरं भगवान् महाकालस्य भव्यः शृङ्गारः कृतः। बाबामहाकालाय रजतमयः ॐकारः, बिल्वपत्रमुकुटं रुद्राक्षमाला च अर्पितानि। मस्तके त्रिपुण्ड्रस्य, त्रिशूलस्य डमरुकस्य च शृङ्गारः कृतः। शेषनागस्य रजतमुकुटेन, रजतमुण्डमालया, रुद्राक्षमालया सुगन्धितपुष्पमालाभिश्च भगवान् महाकालः अलङ्कृतः। भाङ्गः, चन्दनम् आभूषणानि च अपि अर्पितानि।
भस्मारतेः पूर्वं भगवान् गणेशस्य, माता पार्वत्याः भगवान् कार्तिकेयस्य च पूजनं कृतम्। भगवान् महाकालाय फलमिष्टान्नयोः भोगः समर्पितः। कर्पूरारत्याः नैवेद्यस्य च अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य भस्म समर्पितम्। महामहानिर्वाणी-अखाडासंस्थायाः पक्षतः अपि बाबामहाकालाय भस्म समर्पितम्।
धार्मिकमान्यतानुसारं भस्मसमर्पणानन्तरं भगवान् महाकालः निराकारस्वरूपात् साकारस्वरूपे भक्तेभ्यः दर्शनं ददाति। भस्मारत्यां बहुसंख्याकाः श्रद्धालवः सम्मिलिताः। भक्तैः बाबामहाकालस्य नन्दीमहाराजस्य च दर्शनं कृत्वा मनोकामनापूर्तये प्रार्थना कृता। आरत्याः समये सम्पूर्णं मन्दिरपरिसरं बाबामहाकालस्य जयघोषैः गुञ्जितम्।
Hindusthan Samachar / Dheeraj Maithani