ब्रिक्स-शिखरसम्मेलने २०२६ कोरापुटजनपदस्य कॉफेयं चर्चितम्, मुख्यमन्त्री माझी प्रकटितवान् गौरवम्
भुवनेश्वरम्, १२ सेप्टेम्बरमासः (हि.स.)। कोरापुटस्य कॉफेयम् अधुना ओडिशा-राज्यस्य स्थानीयपरिचयं कृषिसामर्थ्यं च वैश्विकमञ्चं प्रति नयति। मुख्यमन्त्री मोहनचरणमाझी शनिवासरे नवदिल्ली इत्यत्र आयोजिते द्विदिवसीये ब्रिक्स-इण्डिया-शिखरसम्मेलने २०२६ इत्यत्र
उड़ीसा के मुख्यमंत्री मोहन चरण माझी


भुवनेश्वरम्, १२ सेप्टेम्बरमासः (हि.स.)। कोरापुटस्य कॉफेयम् अधुना ओडिशा-राज्यस्य स्थानीयपरिचयं कृषिसामर्थ्यं च वैश्विकमञ्चं प्रति नयति। मुख्यमन्त्री मोहनचरणमाझी शनिवासरे नवदिल्ली इत्यत्र आयोजिते द्विदिवसीये ब्रिक्स-इण्डिया-शिखरसम्मेलने २०२६ इत्यत्र कोरापुट-कॉफेयस्य प्रदर्शने गौरवं प्रकटितवान्।

सामाजिक-माध्यमस्य ‘एक्स’ इत्यस्य माध्यमेन प्रकाशिते सन्देशे मुख्यमन्त्री माझी उक्तवान् यत् विगतेषु कतिपयेषु दिवसेषु सः वैश्विकमञ्चेषु ओडिशाराज्यस्य अवसरान्, सामर्थ्यं, सम्भावनाश्च प्रस्तुतवान् तथा विश्वं राज्यस्य क्षमतया परिचयं भवितुं निमन्त्रितवान्।

माझी उक्तवान्, “अद्य एतत् दृष्ट्वा विशेषं हर्षं भवति यत् ब्रिक्स-इण्डिया-शिखर-सम्मेलने २०२६ इत्यत्र कोरापुट-कॉफेयम् ओडिशाराज्यस्य कथायाः एकम् अन्यं पक्षं विश्वस्य पुरतः प्रस्तौति।”

मुख्यमन्त्री उक्तवान् यत् अन्ताराष्ट्रिय-सम्मेलने कोरापुट-कॉफेयस्य उपस्थितिः परिचयश्च प्रधानमन्त्रिणा नरेन्द्रमोदिना परि-कल्पितस्य ‘वोकल फॉर लोकल’ इत्यस्य भावनां प्रतिबिम्बयति। स्थानीयो-त्पादनेभ्यः वैश्विकमञ्चं प्रदाय तेषां व्यापकपरिचयं प्रदातुं दिशि एतत् महत्त्वपूर्णं सोपानम् अस्ति इति सः उक्तवान्।

माझी उक्तवान् यत् ओडिशावासिनां परिश्रमस्य राज्यस्य भूमेः समृद्धेः च ओडिशाराज्यस्य सीमाभ्यः बहिः परिचयं प्राप्यमाणं दृष्टुं तस्य कृते अत्यन्तं गौरवस्य क्षणम् अस्ति।

सः उक्तवान्, “एतदेव तत् ओडिशाराज्यम् अस्ति, यं विश्वं जानीयात् इति अहं इच्छामि—यत् स्वमृत्तिकया सम्बद्धम् अस्ति, स्वपरिचये गौरवं अनुभवति तथा स्वकथां विश्वेन सह सहभागं कर्तुं आत्मविश्वासेन परिपूर्णम् अस्ति।”

मुख्यमन्त्री उक्तवान् यत् ब्रिक्स-सम्मेलने कोरापुट-कॉफेयस्य सहभागितया ओडिशाराज्यस्य स्थानीयोत्पादानां सामर्थ्यं प्रकाशितम्।

Hindusthan Samachar / Divya Ranjan