Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। ब्रिक्स-शिखरसम्मेलनस्य विभिन्नेषु कार्यक्रमेषु सहभागितां कर्तुं भारतीय-जनतापक्षस्य शासितराज्यानां बहवः मुख्यमन्त्रिणः नवदिल्लीं प्राप्ताः। तेषु उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी, राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा, गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः, महाराष्ट्रस्य मुख्यमन्त्री देवेन्द्रफडणवीसः तथा गोवायाः मुख्यमन्त्री प्रमोदसावन्तः इत्यादयः वरिष्ठाः नेतारः अपि सम्मिलिताः सन्ति।
शिखरसम्मेलनस्य प्रतिनिधिनां कृते आयोजिते रात्रिभोजे केन्द्रीयमन्त्रिणः तथा भाजपाशासितराज्यानां मुख्यमन्त्रिणः अपि उपस्थिताः भविष्यन्ति। अस्मिन् अवसरे विभिन्नेभ्यः देशेभ्यः नवदिल्लीं प्राप्तैः राजनयिकैः प्रतिनिधिभिश्च सह मुख्य-मन्त्रिणां साक्षात्कारवार्तायाः कार्यक्रमः अस्ति।
ब्रिक्स-शिखरसम्मेलनस्य सन्दर्भे नवदिल्ली इत्यत्र देश-विदेशेभ्यः शीर्षनेतॄणां प्रतिनिधीनां च उपस्थितेः मध्ये आयोजितम् इदं कार्यक्रमं भारतस्य कूटनीतिकीं सङ्घीयां च सहभागितां प्रदर्शयिष्यति। सूत्राणामनुसारं मुख्य-मन्त्रिणः विभिन्नदेशानां प्रतिनिधिभिः सह संवादं करिष्यन्ति तथा भारतस्य राज्यैः सम्बद्धानां अनुभवानां सहयोगस्य सम्भावनानां च विषये चर्चां कर्तुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan