प्रशिक्षितकार्यकर्तृणां सुदृढेन कार्यदलेन बूथस्तरपर्यन्तं कांग्रेसः अधिकं सुदृढ: भविष्यति - राजेशरामः
पटना, १२ सेप्टेम्बरमासः (हि.स.)। बिहारप्रदेशकांग्रेससमित्याः आयोजनेन द्विदिवसीयस्य ‘प्रशिक्षक-प्रशिक्षण-शिविरस्य’ शुभारम्भः शनिवासरे प्रदेश-कांग्रेसमुख्यालये सदाकत्-आश्रमे अभवत्। बिहारकांग्रेसस्य प्रभारी कृष्ण-अल्लावरुः तथा प्रदेशकांग्रेसाध्यक्षः र
कांग्रेस


पटना, १२ सेप्टेम्बरमासः (हि.स.)। बिहारप्रदेशकांग्रेससमित्याः आयोजनेन द्विदिवसीयस्य ‘प्रशिक्षक-प्रशिक्षण-शिविरस्य’ शुभारम्भः शनिवासरे प्रदेश-कांग्रेसमुख्यालये सदाकत्-आश्रमे अभवत्। बिहारकांग्रेसस्य प्रभारी कृष्ण-अल्लावरुः तथा प्रदेशकांग्रेसाध्यक्षः राजेशरामः संयुक्तरूपेण दीपप्रज्वालनं कृत्वा शिविरस्य शुभारम्भं कृतवन्तौ।

शिविरस्य उद्देश्यं कांग्रेससङ्गठनं बूथस्तरपर्यन्तं सुदृढं कर्तुं, कार्यकर्तॄन् वैचारिकरूपेण सङ्गठनात्मकदृष्ट्या च सशक्तान् कर्तुं तथा प्रशिक्षितप्रशिक्षकाणां सुदृढं कार्यदलं निर्मातुम् अस्ति। एतत् कार्यदलं अग्रे प्रखण्ड-पञ्चायत-बूथस्तरपर्यन्तं कार्यकर्तृभ्यः प्रशिक्षणं प्रदास्यति।

अस्मिन् अवसरे बिहारकांग्रेसस्य प्रभारी कृष्ण-अल्लावरुः अवदत् यत् कांग्रेसस्य सङ्गठनं केवलं पदाधिकारिभिः न, अपितु समर्पितैः प्रशिक्षितैश्च कार्यकर्तृभिः सुदृढं भवति। एतत् प्रशिक्षणशिविरं कार्यकर्तृषु नवम् ऊर्जां, नूतनां बोधशक्तिं नूतनं च दायित्वबोधं जनयिष्यति। सः अवदत् यत् कांग्रेसस्य विचारधारायाः देशस्य संविधानस्य च रक्षणाय भूमिस्तरे सुदृढं सङ्गठनम् आवश्यकम् अस्ति। प्रशिक्षिताः कार्यकर्तार एव जनानां मध्ये कांग्रेसस्य नीतयः विचारांश्च प्रभावीरूपेण प्रसारयितुं शक्नुवन्ति।

प्रदेशकांग्रेसाध्यक्षः राजेशरामः अवदत् यत् बिहारप्रदेशकांग्रेससमितिः सङ्गठनं बूथस्तरपर्यन्तं सुदृढं कर्तुं निरन्तरं कार्यं करोति। एतत् प्रशिक्षणशिविरं तस्यैव अभियानस्य महत्त्वपूर्णः भागः अस्ति। अस्माकं प्रयासः अस्ति यत् कांग्रेसस्य प्रत्येकः कार्यकर्ता दलस्य विचारधारां, सङ्गठनस्य कार्यप्रणालीं जनानां च समस्याः अवगत्य पूर्णदृढतया जनानां मध्ये गच्छेत्।

सः अवदत् यत् सङ्गठनस्य सुदृढीकरणं, कार्यकर्तॄणां सशक्तीकरणं जनसेवा च कांग्रेसस्य प्राथमिकता अस्ति। प्रशिक्षित-कार्यकर्तृणां सुदृढेन कार्यदलेन कांग्रेसः ग्रामेषु, पञ्चायतेषु बूथस्तरे च अधिकं सक्रियः प्रभावी च क्रियते।

प्रदेशकांग्रेसाध्यक्षः अवदत् यत् एतत् प्रशिक्षणशिविरं सङ्गठने नूतनम् ऊर्जां प्रदास्यति तथा आगामिषु दिवसेषु कांग्रेसस्य सङ्घर्षं अधिकं तीव्रं करिष्यति।

प्रशिक्षणशिविरस्य प्रभारी राजेश-कुमारमिश्रः अपि अस्मिन् प्रशिक्षणशिविरे समागतान् कार्यकर्तॄन् सम्बोधितवान्।

अस्मिन् अवसरे अनुशासनसमितेः अध्यक्षः कपिलदेवप्रसादयादवः, प्रशिक्षणविभागस्य प्रभारी रञ्जितकुमारमिश्रः, ब्रजेशप्रसाद-मुननः, पङ्कजयादवः, डॉ. सञ्जययादवः, बैद्यनाथशर्मा, डॉ. अमनकुमारः, चन्द्रभूषण-राजपूतः, कुमारी अनिता, मेनकाकुमारी, विनोदशैली, राहुलभारद्वाजः, अङ्कुर-कुमारराजः इत्यादयः प्रशिक्षणशिविरे समागताः अन्ये नेतारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan