आपदि अपि न विच्छिद्यते शिक्षायाः क्रमः : भागलपुरस्य राहतशिविरे प्रारब्धः अस्थायिविद्यालयः
भागलपुरम्, 12 सितंबरमासः(हि.स.)। जिलायां गङ्गायाः सहायकनदीनां च जलस्तरवृद्ध्या सम्प्रति बहवः प्रखण्डाः भीषणबाढग्रस्ताः सन्ति। सर्वतः प्रसृतस्य बाढजलस्य कारणेन बहुसंख्याकाः जनाः स्वगृहाणि परित्यज्य राहतशिविरेषु आश्रयं ग्रहीतुं विवशाः सन्ति। अस्याः
पढ़ाई करते बच्चे


भागलपुरम्, 12 सितंबरमासः(हि.स.)।

जिलायां गङ्गायाः सहायकनदीनां च जलस्तरवृद्ध्या सम्प्रति बहवः प्रखण्डाः भीषणबाढग्रस्ताः सन्ति। सर्वतः प्रसृतस्य बाढजलस्य कारणेन बहुसंख्याकाः जनाः स्वगृहाणि परित्यज्य राहतशिविरेषु आश्रयं ग्रहीतुं विवशाः सन्ति। अस्याः विनाशकारिण्याः आपदः मध्ये बालानां भविष्यं प्रभावितं न भवेत्, इत्यर्थं जिलाप्रशासनेन प्रशंसनीया संवेदनशीलाश्च पहलः कृता अस्ति।

जिलाधिकारिणः निर्देशानुसारं राहतशिविरेषु बालानां कृते ‘अस्थायिविद्यालयानाम्’ आरम्भः कृतः अस्ति। भागलपुरस्य पॉलिटेक्निक्-महाविद्यालये स्थिते राहतशिविरे अनूठं दृश्यं दृश्यते। शिविरस्य अन्तः निर्मितः अयं अस्थायिविद्यालयः सामान्यविद्यालयस्य इव सुव्यवस्थितः कृतः अस्ति। अत्र बालानां उपवेशनाय पटलिकाः आसन्दिकाश्च स्थापिताः सन्ति तथा अध्ययनाय विधिवत् कृष्णफलकस्य व्यवस्था कृता अस्ति। नियुक्ताः शिक्षकाः शिक्षिकाश्च नियमितरूपेण बालानां कक्षाः सञ्चालयन्ति।

अत्र केवलं पुस्तकीयज्ञानमेव न दीयते, अपितु बालानां मानसिकस्वास्थ्यं दृष्ट्वा विविधासु सृजनात्मकक्रियासु मनोरञ्जने च विशेषं ध्यानं दीयते। बाढ्या कारणेन स्वगृहेभ्यः मूलविद्यालयेभ्यश्च दूरेभूतानां एतेषां बालानां कृते इयम् अस्थायीपाठशाला नूतनाशायाः रूपेण उदिता अस्ति। यत्र कतिपयदिनपूर्वं एतेषां बालानां मनसि बाढ्विपत्तेः भयम् आसीत्, तत्र अधुना ते प्रातःकाले एव हस्ते पुस्तिकां पुस्तकानि च गृहीत्वा विद्यालयस्य वातावरणे रमन्ते।

प्रशासनस्य स्पष्टम् उद्देश्यम् अस्ति यत् आपदः अस्यां विकटायां वेलायामपि बालानां शिक्षायाः क्रमः कस्यापि मूल्येन बाधितः न भवेत्। स्थानीयजनैः अभिभावकैश्च प्रशासनस्य अस्याः पहलस्य प्रशंसा कृता तथा संकटकाले बालानां भविष्यस्य संरक्षणाय अयं श्रेष्ठः प्रयासः इति कथितः।

---------------

Hindusthan Samachar / Dheeraj Maithani