Enter your Email Address to subscribe to our newsletters

भागलपुरम्, १२ सेप्टेम्बरमासः (हि.स.)। जनपदे जलौघस्य गम्भीरस्थितिं दृष्ट्वा स्वास्थ्यविभागः सतर्कः अभवत्। जलौघ-पीडितेषु सम्भावितजलप्लावित-क्षेत्रेषु च गर्भवतीनां सुरक्षां सुरक्षित-संस्थागतप्रसवं च सुनिश्चितं कर्तुं विशेषाभियानम् आरब्धम्। अस्य अन्तर्गतं समस्या-युक्तक्षेत्रेभ्यः गर्भवतीनां चिह्नी-करणं कृत्वा समये एव ताः सुरक्षितस्थलेषु समीपस्थस्वास्थ्यकेन्द्रेषु च नेतुं कार्यवाही शीघ्रतया क्रियते।
जलौघपीडितक्षेत्रेषु स्वास्थ्यविभागस्य विशेषदलानि आशाकार्यकर्त्रियश्च गृहं गृहं गत्वा गर्भवतीनां विवरणं सूचनां च सङ्गृह्णन्ति। प्रसवस्य सम्भाविततिथेः, स्वास्थ्यस्थितेः गर्भावस्थायां दृश्यन्तेभ्यः समस्यालक्षणेभ्यश्च आधारेण ताभ्यः प्राथमिकता दीयते। विभागस्य मुख्यं ध्यानम् अस्मिन् विषये अस्ति यत् यासां प्रसवस्य तिथिः समीपे अस्ति, ताः जलौघजलस्य वृद्धेः मार्गस्य अवरोधस्य वा पूर्वमेव सर्वथा सुरक्षितेषु चिकित्सालयेषु स्थानान्तरिताः भवेयुः।
अस्य विशेषोपक्रमस्य मुख्योद्देश्यं जलौघ-सङ्कटकाले अकस्मात् प्रसवपीडायाः स्थितौ कस्याश्चित् महिलायाः नवजात-शिशोर्वा चिकित्सालयं प्रति गमने कापि कठिनता न भवेत् इति सुनिश्चितं करणम् अस्ति। विशेषतः उच्चसमस्यायुक्ताः गर्भवत्यः पूर्वमेव चिकित्सालयेषु प्रवेशिताः स्थानान्तरिताश्च क्रियन्ते। स्वास्थ्यविभागेन सर्वेभ्यः चिकित्साधिकारिभ्यः, चिकित्सा-लयप्रबन्धनाय आशाकार्यकर्तृभ्यश्च परस्परसमन्वयेन चतुर्विंशतिः होराः सतर्काः स्थातुं निर्देशः दत्तः। तदनन्तरम् आपत्कालीनपरिवहनं रेफरल-रुग्णवाहिकाव्यवस्था च पूर्णतया सक्रिये स्थापिता स्तः।
स्वास्थ्यविभागेन आह्वानं कृतं यत् जलौघपीडितक्षेत्रेषु निवसन्त्यः गर्भवत्यः तासां परिवारजनाश्च प्रसवस्य तिथिः समीपे आगते अन्तिमसमयस्य प्रतीक्षां न कुर्युः। कस्यामपि आपत्कालीनस्थितौ निवारणाय तत्कालं समीपस्थया आशाकार्यकर्त्र्या स्वास्थ्यकर्मणा वा सह सम्पर्कं कृत्वा समये एव चिकित्सालयं प्राप्नुयुः।
Hindusthan Samachar / Divya Ranjan