राष्ट्रपति-मुर्मु इत्यनया ईरानदेशस्य राष्ट्रपतिना पेजेश्कियानः इत्यनेन सह मिलितवान्
नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं भारतयात्रायै नवदिल्लीं प्राप्तः ईरानदेशस्य राष्ट्रपतिः मसूद पेजेश्कियानः शनिवासरे राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदीमुर्मु इत्यनया सह मिलितवान्। उभौ नेतारौ द्विपक्षीयसम्बन्धै
ईरान के राष्ट्रपति मसूद पेजेशकियन राष्ट्रपति द्रौपदी मूर्मू से मुलाकात के दौरान।


नवदिल्ली, १२ सेप्टेम्बरमासः (हि.स.)। ब्रिक्स-शिखरसम्मेलने भागं ग्रहीतुं भारतयात्रायै नवदिल्लीं प्राप्तः ईरानदेशस्य राष्ट्रपतिः मसूद पेजेश्कियानः शनिवासरे राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदीमुर्मु इत्यनया सह मिलितवान्।

उभौ नेतारौ द्विपक्षीयसम्बन्धैः सम्बद्धेषु विभिन्नेषु विषयेषु चर्चां कृतवन्तौ। इतः पूर्वं शुक्रवासरे प्रधानमन्त्री नरेन्द्रमोदी ईरानस्य राष्ट्रपतिना सह मिलितवान्। उभौ नेतारौ द्विपक्षीयसम्बन्धानां विभिन्नानां पक्षाणां विषये चर्चां कृतवन्तौ।

इतः पूर्वं ईरानस्य राष्ट्रपतेः पुत्री जहरा पेजेश्कियानः स्वपतिना हसनमजीदिना सह नवदिल्ली इत्यत्र स्थितं राष्ट्रिय-शिल्पसङ्ग्रहालयं गत्वा ब्रिक्स-विपणम् अवलोकितवती। तया ब्रिक्स-सदस्यदेशानां सहभागदेशानां च कलां, हस्तशिल्पं, सांस्कृतिकं धरोहरं च प्रदर्शयन्त्यः विभिन्नानि वस्तूनि अवलोकितानि।

Hindusthan Samachar / Divya Ranjan